________________
इति गम्यते, यस्तु भिक्षुः 'न वावरे'त्ति 'न व्याप्रियते' न चलनादिक्रियां कुरुते यत्तदोर्नित्याभिसम्बन्धादर्थवशाद् | विभक्तिपरिणामतश्च तस्य भिक्षोः 'कायस्य' शरीरस्य 'व्युत्सर्गः' चेष्टां प्रति परित्यागो यः 'छट्टो सो परिकित्तितो' ति सूत्रत्वालिङ्गव्यत्यये षष्ठं 'तत्' प्रक्रमादभ्यन्तरं तपः 'परिकीर्त्तितं' तीर्थकरादिभिरुक्तं, शेषव्युत्सर्गोपलक्षणं चैतद्, अनेकविधत्वात्तस्य, उक्तं च- "देवे भावे य तथा दुविधुस्सग्गो चउन्विहो दव्वे । गणदेहो वहिभत्ते भावे कोहा| इचातोति ॥ १ ॥” इति सूत्रषट्कार्थः ॥ सम्प्रत्यध्ययनार्थमुपसंहरन्नस्यैव फलमाह -
एयं तवं तु दुविहं, जं सम्मं आयरे मुणी । से खिष्पं सव्वसंसारा, विप्पमुच्चइ पंडिए ॥ ३७ ॥ त्तिबेमि ॥ ॥ तवमग्गिजं ॥ ३८ ॥
'एतत्' अनन्तरोक्तखरूपं 'तवं तु दुविहूं'ति तपः द्विविधमपि उक्तभेदतो द्विभेदमपि यः सम्यक् 'आचरेत्' आसेवते मुनिः स क्षिप्रं 'सर्वसंसारात्' चतुर्गतिरूपात् 'विप्रमुच्यते' पृथग् भवति पण्डितः, पठन्ति च - 'सो खवेत्तु रयं अरओ, नीरयं तु गई गए' इह च 'आयरे'त्ति तिव्यत्ययादाचारीत्, अतीतनिर्देशश्च भूतभविष्य तोरप्युपलक्षणं, कालत्रयेऽपि तुल्य माहात्म्यत्वादस्यैतत्क्षेत्रापेक्षा (क्षया) वेति सूत्रार्थः ॥ 'इति' परिसमाप्तौ ब्रवीमीति पूर्ववत् । इत्यवसितोऽनुगमो, नयाश्च प्राग्वत् ॥ इत्युत्तराध्ययनश्रुतस्कन्धटीकायां श्रीशान्त्याचार्यविरचितायां तपोमार्गगति नामकं त्रिंशत्तममध्ययनं समाप्तमिति ॥ ३० ॥
१ द्रव्ये भावे तथा द्विविध उत्सर्गः चतुर्विधो द्रव्ये । गणदेहोपधिभक्ते भावे क्रोधादित्याग इति ॥ १ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org