________________
। 'एगंतति सुब्ब्यत्ययाद 'एकान्ते जनेनानाकुले 'अनापाते' ख्याधापातरहिते 'स्त्रीपशविवर्जिते तत्रैव स्थितख्यादिरहिते शून्यागारादाविति भावः 'सयणासणसेवणय'त्ति सूत्रत्वात् शयनासनसेवनं विविक्तशयनासनं बाह्यं तप उच्यत इति शेषः, उपलक्षणं चैतदेषणीयफलकादिग्रहणस्य, तथा चानेन विविक्तचर्या नाम संलीनतोक्ता भवति, यतस्तलक्षणमिदम्-"आरामुजाणाइसु थीपसुपंडगविवजिए ठाणं । फलगाईण य गहणं तह भणियं एसणिजाणं ॥१॥" शेषसंलीनतोपलक्षणं चासौ, प्राधान्याचास्या एव साक्षादभिधानं, प्राधान्यं चेन्द्रियादिसंलीनतोपकारित्वादस्याः, इयं चेत्थं चतुर्विधा, यत उक्तम्-"इंदियकसायजोगे पडुच संलीणया मुणेयवा। तह जा विवित्तचरिया पण्णत्ता वीयरागेहिं ॥१॥" तत्रेन्द्रियसंलीनता श्रोत्रादिभिरिन्द्रियैः शब्दादिषु सुन्दरेतरेषु रागद्वेषाकरणं, कषायसंलीनता तदुदयनिरोध उदीर्णविफलीकरणं च, योगसंलीनता च मनोयोगादीनामकुशलानां निरोधः कुशलानामुदीरणमिति सूत्रार्थः ॥ उक्तमेवार्थमुपसंहरन्नुत्तरग्रन्थसम्बन्धाभिधानायाह
एसो बाहिरगतवो, समासेण वियाहिओ। अभितरं तवं इत्तो, वुच्छामि अणुपुव्वसो॥२९॥ 'एतत् अनन्तरोक्तं बाह्यकं तपः समासेन व्याख्यातम् ,आह-किं पुनरितो बाह्यात्तपसः फलमवाप्यते ?, उच्यते,
१ आरामोद्यानादिषु स्त्रीपशुपण्डकविवर्जिते स्थाने । फलकादीनां च ग्रहणं तथा भणितमेषणीयानाम् ॥ १॥२ इन्द्रियकषाययोगान् || प्रतीत्य संलीनता ज्ञातव्या । तथा या विविक्तचर्या प्रज्ञप्ता वीतरागैः ॥२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org