SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ तपोमार्ग गत्य०३० उत्तराध्य. 'परिवर्जनं' परिहरणं रसानां रस्समानत्वेन 'तुः' पूरणे 'भणितम्' अभिहितं तीर्थकृदादिभिरिति गम्यते, रसविवर्जनं बृहद्वृत्तिः नाम बाह्यं तप इति सूत्रार्थः ॥ उक्तो रसपरित्यागः, कायक्लेशमाह ठाणा वीरासणाईया, जीवस्स उ सुहावहा । उग्गा जहा धरिजंति, कायकिलेसं तमाहियं ॥२७॥ ॥६०७॥ स्थीयत एभिरिति स्थानानि-कायावस्थितिभेदा वीरासनं-यत्सिंहासनस्थितस्य तदपनयने तथैवावस्थानं तदादि जार्येषां तानि वीरासनादिकानि, आदिशब्दाद्गोदोहिकासनादिपरिग्रहः, सूत्रत्वाल्लिङ्गव्यत्ययात् , लोचाधुपलक्षणं चैतत्, तथाऽऽह-"वीरासण उक्कुडुगासणाइ लोयाइओ अविण्णेओ । कायकिलेसो संसारवासणिवेयहेउत्ति ॥१॥" |'जीवस्य जन्तोः 'तुः' अवधारणे भिन्नक्रमश्च, ततः सुखावहान्येव मुक्तिसुखप्रापकत्वेन शुभावहान्येव वा 'उग्राणि' दुरनुष्ठेयतयोत्कटानि 'यथा' येन प्रकारेण 'धार्यन्ते' इत्यासेव्यन्ते गम्यमानत्वाद्यतिभिः 'कायकिलेसं तमाहियन्ति कायस्य क्लेशो-बाधनं कायक्लेशः सः 'आख्यातः' कथितस्तथैवेति शेषः, इह च संसार्यात्मनः कायानुगतत्वेन तत्क्लेशे | यद्यप्यवश्यं क्लेशसम्भवस्तथाऽपि भावितात्मनामसौ सन्नप्यसत्सम एवेति तदनभिधानमिति सूत्रार्थः ॥ एवं कायक्लेश-| मुक्त्वा संलीनतां वक्तुमाह एगंतमणावाए, इत्थीपसुविवन्जिए । सयणासणसेवणया, विवित्तं सयणासणं ॥ २८॥ १ वीरासनोत्कटुकासनादि लोचादिकश्च विज्ञेयः । कायक्लेशः संसारवासनिर्वेदहेतुरिति ॥ १ ॥ FACAMARAGAR ॥६०७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy