________________
5453
ISH 'अद्वविहगोयरगति प्राकृतत्वाद् अष्टविधः-अष्टप्रकारोऽप्रः-प्रधान आधाकर्मादिपरिहारेण स चासौ गौरिव ॥
चरणम्-उच्चावचकुलेष्वविशेषेण पर्यटनं गोचरश्चाष्टविधायगोचरः, 'तु:' उत्तरभेदापेक्षया समुच्चये, तथा सप्तैवैषणा अभिगृह्यन्त इत्यभिग्रहाः 'चः' समुच्चये ये अन्ये एतदतिरिक्ताः, ते किमित्याह-'भिक्खायरियमाहियति सूत्रत्वेन भिक्षाचर्याविषयत्वात् भिक्षाचर्या वृत्तिसङ्केपापरनामिकाऽऽख्याताः, अत्र चाष्टावग्रगोचरभेदाः पेडादय एव शम्बूकाव
या द्वैविध्याश्रयणतः तथा ऋज्व्याद्याश्चापरायाः प्रक्षेपात्, ससैषणाश्चेमाः-"संसहमसंसठ्ठा उद्धड तह अप्पलेवडा चेव। उग्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया ॥१॥" 'अभिग्रहाश्च' द्रव्यक्षेत्रकालभावविषयाः, तत्र द्रव्याभिग्रहा:-कुन्ताग्रादिसंस्थितमण्डकखण्डादि ग्रहीष्य इत्यादयः क्षेत्राभिग्रहाः-देहलीजवयोरन्तर्विधाय यदि दास्यति ततो ग्राह्यमित्यादयः, कालाभिग्रहाः-सकलभिक्षाचरनिवर्तनावसरे मया पर्यटितव्यमित्यादयः, भावाभिग्रहास्तु-हसन् रुदन् बद्धो वा यदि प्रतिलाभयिष्यति ततोऽहमादास्ये न त्वन्यथेत्येवमादय इति सूत्रभावार्थः॥ (ग्रन्थानम्१५०००)। अभिहिता भिक्षाचर्या, रसपरित्यागमाह| खीरदहिसप्पिमाई, पणीयं पाणभोयणं । परिवजणं रसाणं तु, भणियं रसविषजणं ॥२६॥ । क्षीरं-दुग्धं दधि-तद्विकारः सर्पिः-घृतं तदादि, आदिशब्दाद् गुडपक्कान्नादिपरिग्रहः, 'प्रणीतम्' अतिबृंहकं पीयत इति पानं-खजूररसादि भुज्यत इति भोजन-गलदिन्द्रोदनादि अनयोः समाहारे पानभोजनं सोपस्कारत्वादेषां
dan Education International
For Personal & Private Use Only
www.jainelibrary.org