SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ SI " क्षेत्रावमौदर्यमाह-प्रसति गुणान् गम्यो वाऽष्टादशानां कराणामिति ग्रामस्तस्मिन्, नात्र करोऽस्तीति नक तस्मिन् , तथा राजाऽनया धीयत इति राजधानी-राज्ञः पीठिकास्थानमित्यर्थः, निगमयन्ति तस्मिन्ननेक-I विधभाण्डानीति निगमः-प्रभूततरवणिजां निवासोऽनयोः समाहारस्तस्मिंश्च, आकुर्वन्ति तस्मिन्नित्याकरो-हिरण्यायुत्पत्तिस्थानं तस्मिन् , 'पलि'त्ति सुब्ब्यत्ययात् पाल्यन्तेऽनया दुष्कृतविधायिनोजना इति पल्ली, नैरुक्तो विधिः ।। वृक्षगहनाद्याश्रितःप्रान्तजननिवासस्तस्यां, खेट्यन्ते-उनास्यन्तेऽस्मिन्नेव स्थितैः शत्रव इति खेट-पांशुप्राकारपरिक्षिप्तम् , उक्तं हि-"खेडं पुण होइ धूलिपायारं" तस्मिन् , कर्बर्ट-कर्बटजनावासः, कुनगरमित्यर्थः, द्रोण्यो-1 नावो मुखमस्येति-द्रोणमुख-जलस्थलनिगमप्रवेशं यथा भृगुकच्छं ताम्रलिप्तिा, पतन्ति तस्मिन् समस्त दिग्भ्यो जना| इति पत्तनं,तच जलपत्तनं यजलमध्यवर्ति, यथा काननद्वीपः, स्थलपत्तनंच निर्जलभूभागभावि यथा मथुरा, 'मडंब'चि ट्र देशीपदं यस्य सर्वदिश्वर्द्धतृतीययोजनान्तामो नास्ति, समिति-भृशं बाध्यन्तेऽस्मिन् जना इति संबाधः-प्रभूतचा-1 तुर्वर्ण्यनिवासः, कवटादीनां चात्र समाहारद्वन्द्वस्तस्मिन्, आ-समन्तात् श्राम्यन्ति-तपः कुर्वन्त्यस्मिन्नित्याश्रम:तापसावसथादिस्तदुपलक्षितं पदं-स्थानमाश्रमपदं तस्मिन् , विहारो-भिक्षुनिवासो देवगृहं वा तत्प्रधानो ग्रामादिरपि विहारस्तस्मिन् , 'संनिवेशे' यात्रादिसमायातजनावासे, समाजः-पथिकसमूहः घोषो-गोकुलमनयोः समाहारे समाजघोषं तस्मिन्, 'चः' समुच्चये, स्थल्याम्-उच्चभूभागे सेना-चातुरङ्गवलसमूहः स्कन्धावारः स एवाशेषखेडाद्युप RAR Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy