________________
तपोमार्ग
गत्य०३०
उत्तराध्य. गुणितो घनो भवति, आगतं चतुःषष्टिः ६४, स्थापना तु पूर्विकैव नवरं बाहल्यतोऽपि पदचतुष्टयात्मकत्वं बृहद्वृत्तिः
विशेषः, एतदुपलक्षितं तपो घनतप उच्यते, 'चः' समुच्चये, 'तथा भवति वर्गश्चे'तीहापि प्रक्रमावर्ग इति वर्गतपः,
तत्र च धन एव घनेन गुणितो वर्गो भवति, ततश्चतुःषष्टिश्चतुःषष्टयैव गुणिता जातानि षण्णवत्यधिकानि चत्वारि ॥६०१॥
से सहस्राणि, एतदुपलक्षितं तपो वर्गतपः। ततश्च' वर्गतपसोऽनन्तरं 'वर्गवर्ग' इति वर्गवर्गतपः 'तुः'समुच्चये 'पञ्च
म' पञ्चसङ्ख्यापूरणम् , अत्र च वर्ग एव यदा वर्गेण गुण्यते तदा वर्गवर्गो भवति, तथा च चत्वारि सहस्राणि
षण्णवत्यधिकानि तावतैव गुणितानि जातका कोटिः सप्तपष्टिलक्षाः सप्तसप्ततिसहस्राणि द्वे शते षोडशाधिके. है अङ्कतोऽपि १६७७७२१६, एतदुपलक्षितं तपो वर्गवर्गतप इत्युच्यते, एवं पदचतुष्टयमाश्रित्य श्रेण्यादितपो
दर्शितम् , एतदनुसारेण पञ्चादिपदेष्वप्येतत्परिभावना कार्या, षष्ठकं 'प्रकीर्णतपः' यच्छेण्यादिनियतरचनाविरहितं खशक्त्यपेक्षं यथाकथञ्चिद्विधीयते, तच्च नमस्कारसहितादि पूर्वपुरुषाचरितं यवमध्यवज्रमध्यचन्द्रप्रतिमादि च, इत्थं भेदानभिधायोपसंहारमाह-'मणइच्छियचित्तत्थोत्ति मनसः-चित्तस्य ईप्सित-इष्टश्चित्रः-अनेकप्रकारोऽर्थः खर्गापवर्गादिस्तेजोलेश्यादि यस्मात्तन्मनईप्सितचित्रार्थ ज्ञातव्यं भवति 'इत्वरकं' प्रक्रमादनशनाख्यं तपः। सम्प्रति मरणकालमनशनं वक्तुमाह-'जा सा अणसणा'इति यत्तदनशनं 'मरणे' मरणावसरे द्विविधं तद्विशेषेणाख्यातंकथितं व्याख्यातं तीर्थकृदादिभिरिति गम्यते, तद्वैविध्यमेवाह-सह विचारेण-चेष्टात्मकेन वर्तते यत्तत्सविचार
| ॥६०१॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org