________________
SROSROSAGARMACEAR
तद्विपरीतमविचार, विचारश्च कायवाङ्मनोभेदात्रिविध इति तद्विशेषपरिज्ञानार्थमाह-'कायचेष्टाम्' उद्वर्तनपरिवर्त- 1 नाटिककायप्रवीचारं 'प्रतीति आश्रित्य भवेत् स्यात्, तत्रसविचारं भक्तप्रत्याख्यानमिङ्गिनीमरणं च, तथाहि-भक्तप्रत्याख्याने गच्छमध्यवर्ती गुरुदत्तालोचनो मरणायोद्यतो विधिना संलेखनां विधाय ततस्त्रिविधं चतुर्विधं वाऽऽहारं प्रत्याचष्टे, स च समाश्रितमृदुसंस्तारकः समुत्सृष्टशरीराधुपकरणममत्वः खयमेवोद्वाहितनमस्कारः समीपवर्तिसाधुदत्तनमस्कारो वा सत्यां शक्ती खयमुद्वत्तेते, शक्तिविकलतायां चापरैरपि किञ्चित्कारयति, यत उक्तम्-"वियडणमभुट्ठाणं उचियं संलेहणं च काऊणं । पचक्खति आहारं तिविहं च चउविहं वावि ॥१॥ उव्वत्तति परियत्तति सयमण्णेणावि कारए किंचि । जत्थ समत्थो नवरं समाहिजणयं अपडिबद्धो ॥२॥” इङ्गिनीमरणमप्युक्तन्यायतः प्रतिपद्य शुद्धस्थण्डिलस्थाता एकाक्येव कृतचतुर्विधाहारप्रत्याख्यानस्तत्स्थण्डिलस्यान्तश्छायात उष्णमुष्णाच छायां खयं संक्रामति, तथा चाह-'इंगियमरणविहाणं आपवजं तु वियडणं दाउं। संलेहणं च काउं जहासमाही जहा-1 कालं ॥१॥ पञ्चक्खति आहारं चउविहं णियमओ गुरुसगासे । इंगियदेसंमि तहा चेटुंपि हु इंगियं कुणइ ॥२॥ । १ आलोचनमभ्युत्थानमुचितां संलेखनां च कृत्वा । प्रत्याख्याति आहारं त्रिविधं चतुर्विधं वाऽपि ॥१॥ उद्वर्त्तते परिवर्त्तते स्वयमन्येनापि कारयेत् किञ्चित् । यदि समर्थो नवरं समाधिजनकमप्रतिबद्धः ॥२॥ २ इङ्गिनीमरणविधानमाप्रव्रज्यं तु आलोचनां दत्वा । संलेखनां कृत्वा च यथासमाधि यथाकालम् ॥१॥ प्रत्याख्याति आहारं चतुर्विधं नियमतो गुरुसकाशे । इङ्गितदेशे तथा चेष्टामपि इङ्गितां करोति ॥ २॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org