________________
तच्चतुर्थादिक्रमेण क्रियमाणमिह षण्मासान्तं परिगृह्यते, तथा श्रेणिरेव श्रेण्या गुणिता प्रतर उच्यते, तदुपलक्षित हैं। तपः प्रतरतपः, इह चाव्यामोहाथै चतुर्थषष्ठाष्टमदशमाख्यपदचतुष्टयात्मिका श्रेणिर्विवक्ष्यते, सा च चतुर्भिर्गुणिता षोडशपदात्मकः प्रतरो भवति, अयं चायामतो विस्तरतश्च तुल्य इत्यस्य स्थापनोपाय उच्यते-"एकाद्याद्या व्यवस्थाप्याः, पतयोऽत्र यथाक्रमम् । एकादींश्च निवेश्यान्ते, क्रमात्पकिं प्रपूरयेत् ॥१॥" अस्यार्थः-एक आदिर्येषां ते एकादयः-एककद्विकत्रिकचतुष्कास्ते आद्या यासु ता एकाद्याद्याः 'व्यवस्थाप्याः' न्यसनीयाः 'पतयः' श्रेणयः 'यथाक्रम क्रमानतिक्रमेण, कोऽर्थः -प्रथमा एकाद्या एककादारभ्य, द्वितीया द्विकाद्या द्विकादारभ्य, तृतीयात्रिकाद्या त्रिकादारभ्य, चतुर्थी-चतुष्काद्या चतुष्कादारभ्य, आह-एवं सति प्रथमपतिरेव परिपूर्णा भवति द्वितीयाद्यास्तु न पूर्यन्त एव, तत्कथं पूरणीयाः ?, उच्यते, एकादींश्च निवेश्य व्यवस्थाप्याः ‘अन्ते' इत्यो र 'क्रमात्' इति क्रममाश्रित्य 'पङ्क्तिम्' अपूर्यमाणा श्रेणिं 'पूरयेत्' परिपूर्णी कुर्यात्, तत्र च द्वितीयपतौ द्विकत्रिकचतुष्कानामग्रे एककः, तृतीयपङ्को त्रिकचतुष्कयोः पर्यन्ते एकको द्विकः, चतुर्थपत्रौ चतुष्कावसान एककद्विकत्रिकाः स्थाप्यन्ते, स्थापना चेयम्-२३ चतुर्थषष्ठाष्टमदशमप्रक्रमः, 'घन' इति घनतपः 'चः' पूरणे तथेति समुचये भवतीति च क्रिया प्रतितपोभेदं ३ ४ १२ योजनीया, अत्र च षोडशपदात्मकः प्रतरः पदचतुष्टयात्मिकया श्रेण्या
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org