SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ तत्समुच्छिन्नक्रियं न निवर्त्तते कर्मक्षयात्प्रागित्येवंशीलम् अनिवर्त्ति शुक्लध्यान चतुर्थभेदरूपं 'ध्यायन्' शैलेश्यवस्थामनुभवन्निति भावः हखाक्षरोचारणं च न विलम्बितं द्रुतं वा किन्तु मध्यममेव गृह्यते, यत आह - “हस्सक्खराई मज्झेण जेण कालेण पंच भण्णंति । अच्छइ सेलेसिगतो तत्तियमित्तं तओ कालं ॥ १॥" एवंविधश्च यत्कुरुते तदाह'वेदनीयं' सातादि 'आयुष्कं' मनुष्यायुः 'नाम' मनुजगत्यादि 'गोत्रं च' उच्चैर्गोत्रम् 'एए'ति एतानि चत्वार्यपि 'कम्मंसि'त्ति सत्कर्माणि युगपत्क्षपयति, एतत्क्षपणान्यायश्च भाष्यगाथाभ्योऽवसेयः, ताश्वेमाः- “तयसंखेज्जगुणाए गुणसेढीऍ रइयं पुराकम्मं । समए समए खवयं कम्मं सेलेसिकालेणं ॥ १ ॥ सवं खवेति तं पुण णिलेवं किंचि दुचरिमे समए । किंचिच्च होइ चरिमे सेलेसीए तयं वोच्छं ॥ २ ॥ मणुयगइजाइतसबायरं च पज्जत्तसुभगमाएजं । अण्णयरवेयणिज्जं णराउमुचं जसो णामं ॥ ३ ॥ संभवतो जिणणामं णराणुपुवी य चरिमसमयम्मि । सेसा जिण| संतातो दुधरिमसमयंमि णिङ्कंति ॥ ४ ॥” 'ततः' इति वेदनीयादिक्षयानन्तरम् 'ओरालियकम्माई च'त्ति औदारिककार्मणे शरीरे उपलक्षणत्वात्तैजसं च 'सवाहिं विप्पजहणाहि 'न्ति 'सर्वाभिः' अशेषाभिर्विशेषेण विविधं वा प्रकर्षतो हानयः १ तदसंख्यगुणया गुणश्रेण्या रचितं पुराकर्म । समये २ क्षपयन् कर्म शैलेशीकालेन || १ || सर्व क्षपयति तत्पुनर्निर्लेपं किञ्चिद्दिचरमे समये । किञ्चिञ्च भवति चरमे शैलेश्यास्तद्वक्ष्ये ||२|| मनुजगतिजातित्र सबादरं च पर्याप्तसुभगमादेयम् । अन्यतरवेदनीयं नरायुरुचैर्यशोनाम ||३|| संभवतो जिननाम नरानुपूर्वी च चरमे समये । शेषा जिनसत्का द्विचरमसमये निस्तिष्ठन्ति ॥ ४ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy