________________
उत्तराध्य.
बृहद्वृत्तिः
॥५९६॥
तद्यापारं च प्रतिसमयं निरुन्धन्नसंख्येय समयैस्तत्सर्वनिरोधं करोति, यत उक्तम् - "पजत्तमित्तसण्णिस्स जत्तियाई | जहण्णजोगिस्स । होन्ति मणोदवाई तद्यावारो य जम्मेत्तो ॥ १ ॥ तयसंखगुणविहीणे समए समए निरंभमाणो सो । मणसो सवणिरोहं कुणइ असंखेज्जसमएहिं ॥ २ ॥” तदनन्तरं च वांचो वाचि वा योगो भाषाद्रव्यसाचिव्यजनितो | जीवव्यापारस्तन्निरुणद्धि, तत्र च पर्याप्तमात्रद्वीन्द्रियजघन्यवाग्योगपर्यायेभ्योऽसंख्येयगुणविहीनांस्तत्पर्यायान् समये | समये निरुन्धन्न संख्येय समयैः सर्ववाग्योगं निरुणद्धि, यत उक्तम् - "पजत्तमित्तबिंदिय जहन्नवइजोगपज्जवा जे उ । तदसंखगुणविहीणं समए समए निरंतो ॥३॥ सव्ववइजोगरोहं संखाईएहि कुणइ समएहिं ।" 'आणापाणुणिरोह' ति आनापानौ - उच्छासनिःश्वासौ तन्निरोधं करोति, सकलकाययोगनिरोधोपलक्षणं चैतत् तं च कुर्वन् प्रथमसमयो-त्पन्न सूक्ष्मपनकजघन्य काययोगतोऽसङ्खधेयगुणहीनं काययोगेनैकैकसमये निरुन्धन् देहत्रिभागं च मुञ्चन्नसङ्खयेयसमयैरेव सर्व निरुणद्धि, यत उक्तं च- " तत्तो य सुहुमपणयस्स पढमसमओववण्णस्स ॥ ४ ॥ जो किर जहण्णजोओ तयसंखेज्जगुणहीण मेकेके । समए निरंभमाणो देहतिभागं च मुंचंतो ॥५॥ रुंभइ स कायजोगं संखाईएहिं चेव समएहिं । तो कयजोगनिरोहो सेलेसीभावणामेति ॥ ६ ॥" इत्थं योगत्रयनिरोधं विधाय ईषदिति - खल्पः प्रयत्नापेक्षया पञ्चानां हखाक्षराणाम् अइउऋलृ इत्येवंरूपाणामुच्चरणमुच्चारो-भणनं तस्याद्धा - कालो यावता त उच्चार्यन्त | ईषत्पञ्चाक्षरोच्चारणाद्धा तस्यां च णमिति प्राग्वत् अनगारः समुच्छिन्ना - उपरता क्रिया - मनोव्यापारादिरूपा यस्मिं
Jain Education International
For Personal & Private Use Only
सम्यक्त्व
पराक्रमा.
२९
॥५९६॥
www.jainelibrary.org