________________
रितम्' उदयप्राप्तम् उदीरणायास्तत्रासम्भवात् 'वेदितं' तत्फलसुखानुभवनेन 'निर्जीण' क्षयमुपागतं 'सेयाले यत्ति सूत्रत्वाद् एष्यकाले' चतुर्थसमयादावकर्म चापि भवति, तज्जीवापेक्षया पुनस्तस्य तथाविधपरिणामाभावात् , एतचैवंविधविशेषणान्वितं सातकर्मैवासौ बध्नाति, यत उक्तम्-"अप्पं बायर मउयं बहुं च रुक्खं च सुक्किलं चेव । मंदं महत्वयंति य सायाबहुलं च तं कम्मं ॥१॥" ७१ । अयं च देशोनपूर्वकोटीमन्तर्मुहूर्तादिप्रमाणं वा कालं विहृत्य यथा शैलेशीमवाप्याकर्मतां लभते तथा दर्शयन् शैलेश्यकर्मताद्वारमर्थतो व्याचिख्यासुराह-'अथेति केवलावात्यनन्तरम् 'आयुष्कं' जीवितमन्तर्मुहूर्त्तादिपरिमाणं पालयित्वा, अन्तर्मुहूर्तपरिमाणाऽद्धा-कालोऽन्तर्मुहूर्ताद्धा साडवशेषम्-उद्धरितं यस्मिंस्तदन्तर्मुहूर्ताद्धावशेषं तथाविधमायुरस्खेत्यन्तर्मुहूर्ताद्धावशेषायुष्कः सन् , पाठान्तरतश्चान्तर्मुहूर्तावशेषायुष्कः, पठन्ति च- अंतोमुहुत्तअद्धावसेसाए'त्ति प्राकृतत्वादन्तर्मुहूर्तावशेषाद्धायां 'योगनिरोहं करेमाणे'त्ति योगनिरोधं करिष्यमाणः सूक्ष्मा क्रिया-व्यापारो यस्मिंस्तत्सूक्ष्मक्रियमप्रतिपतनशीलमप्रतिपाति अधःपतनाभावात् , शुक्लं ध्यानं 'समुदायेषु हि वृत्ताः शब्दा अवयवेष्वपि वर्तन्त' इति शुक्लध्यानतृतीयभेदं ध्यायन् 'तत्प्रथमतया' तदाद्यतया मनसो योगो मनोयोगः-मनोद्रव्यसाचिव्यजनितो व्यापारस्तं निरुणद्धि, तत्र च पर्याप्तमात्रस्य सज्ञिनो जघन्ययोगिनो यावन्ति मनोद्रव्याणि तजनितश्च यावद्यापारस्तदसङ्ख्यगुणविहीनानि मनोद्रव्याणि १ अल्पं बादरं मृदु बहु च रूक्षं च शुक्ल चैव । मन्दं महाव्ययमिति च सातबहुलं च तत्कर्म ॥ १॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org