________________
उत्तराध्य.
सम्यक्त्व
बृहद्वात्तिः
पराक्रमा.
॥५९५॥
skerstock
तेसु चेवागासपएसेसु पडिसाहरित्तए ? णो इणमटे समढे, केवलिस्स णं चलाई सरीरोवगरणाई हवंति, चलोवगरणत्ताए केवली णो संचाएति तेसु चेवागासपएसेसु हत्थं वा पायं वा पडिसाहरित्तए" तदेवं पथिस्थस्तिष्ठच्चैर्यापथिकं कर्म बनाति, तच्च कीगित्याह-सुखयतीति सुखः स्पर्शः-आत्मप्रदेशैः सह संश्लेषो यस्य तत्सुखस्पर्श द्वौ समयौ यस्याः सा द्विसमया तथाविधा स्थितिरस्येति द्विसमयस्थितिकं, द्विसमयस्थितिकत्वमेव भावयितुमाह-तत् प्रथमसमये बद्धम्-आत्मसात्कृतं स्पर्शाविनाभावित्वाचास्य स्पृष्टं च, द्वितीयसमये वेदितम्-अनुभूतमुदयान्यथानुपपत्त्या चास्योदितं च, तृतीयसमये निर्जीर्ण-परिशटितं, तदुत्तरकालस्थितेः कषायहेतुत्वात्, उक्तं हि"जोगा पयडिपएसं ठितिअणुभागं कसायओ कुणति"त्ति, द्विसमयस्थितिकबन्धस्य तु योगसम्भवेऽवश्यम्भावित्वादिहाभिधानं, तदवश्यम्भाविता तु णो कम्मेहिँ विवरीयं जोगदबेहिं भवति जीवस्स । तस्सावत्थाणे णणु सिद्धो दुसमयंठितिबंधो॥१॥' इति युक्तितोऽवसेया, अतश्च तद्वद्धं-जीवप्रदेशैः श्लिष्टमाकाशेन घटवत् तथा स्पृष्टं मसृणमणिकुड्यापतितस्थूलशिलाशकलचूर्णवत्, अनेन विशेषणद्वयेन तस्य निधत्तनिकाचितावस्थयोरभावमाह, 'उदी
१ तेष्वेवाकाशप्रदेशेषु प्रतिसंहर्तु ?, नैषोऽर्थः समर्थः, केवलिनश्चलानि शरीरोपकरणानि भवन्ति, चलोपकरणतया केवली न शक्नोति तेष्वेवाकाशप्रदेशेषु हस्तं वा पादं वा प्रतिसंहर्तुम् ॥ २ योगात् प्रकृतिप्रदेशबन्धं स्थित्यनुभागबन्धं कषायतः करोति । ३ न कर्मद्रव्याणि विपरीतानि योगद्रव्येभ्यो भवन्ति जीवस्य । तस्यावस्थाने ननु सिद्धो द्विसमयस्थितिबन्धः ॥ १॥
॥५०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org