SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ 354 -5 शापयति तत्सूत्रकृदाह-पञ्चविधं ज्ञानावरणीयं नवविधं दर्शनावरणीयं पञ्चविधमन्तरायम्, 'एए'त्ति लिङ्गव्यत्ययादे तानि 'त्रीण्यपि' वक्ष्यमाणरूपाणि 'कम्मंसे'त्ति सत्कर्माणि 'युगपत् एककालं क्षपयति, स्थापना चेयम् ॥ 'ततः' इति क्षपणातः ‘पश्चाद्' अनन्तरं नास्योत्तरं प्रधानमन्यत् ज्ञानमस्तीत्यनुत्तरम् , 'अनन्तम्' अविनाशितया विषयानन्ततया च 'कृत्स्नं कृत्स्त्रवस्तुविषयत्वात् 'परिपूर्ण सकलखपरपर्यायपरिपूर्णवस्तुप्रकाशकत्वात् 'निरावरणम्' अशेपावरणविगमात् 'वितिमिरं' तत्र सति क्वचिदप्यज्ञानतिमिराभावात् 'विशुद्धं सकलदोषविगमात् 'लोकालोकप्रभावकं तत्खरूपप्रकाशकत्वात् , पाठान्तरतश्च-'लोकालोकखभावं' संक्रान्तलोकालोकसकलखरूपत्वात् केवलम्-असहायं वरं |शेषज्ञानापेक्षया ज्ञानं च दर्शनं च ज्ञानदर्शनं ततः केवलवरशब्दाभ्यां विशेषणसमासे केवलवरज्ञानदर्शनं 'समुत्पादयति' जनयत्यात्मन इति गम्यते, स च यावत् 'सयोगी' मनोवाक्कायव्यापारवान् भवति तावच किमित्याह-ईरणमीर्या६ गतिस्तस्याः पन्था यदाश्रिता सा भवति तस्मिन् भवमध्यात्मादित्वाकि ऐर्यापथिकम् , उपलक्षणं च पथिग्रहणं, तिष्ठतोऽपि सयोगस्वेर्यासम्भवात् , संभवन्ति हि सयोगितायां केवलिनोऽपि सूक्ष्मा गात्रसञ्चाराः, यत आह-"केवली णं भंते ! अस्सि समयंसि जेसु आगासपएसेसु हत्थं वा पायं वा ओगाहित्ताणं साहरिजा पभू णं भंते ! केवली । १ केवली भदन्त ! अस्मिन् समये येष्वाकाशप्रदेशेषु हस्तं वा पादं वाऽवगाह्य संहरेत् प्रभुर्भदन्त ! केवल्ये Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy