________________
उत्तराध्य.
सम्यक्त्व
पराक्रमा.
बृहद्वृत्तिः ॥५९४॥
२९
पयलपयलं च। थीणं खवेइ ताहे अवसेसं जंच अट्ठण्हं ॥२॥" ततोऽपि किञ्चित्सावशेषं नपुंसकवेदमध्ये प्रक्षिप्य तत्समन्वितं क्षपयति, एवं तदुद्धरितसहितं स्त्रीवेदं, तदवशिष्टान्वितं च हास्यादिषट्, तदंशसहितं च पुरुषवेदखण्डद्वयं यदि पुरुषः प्रतिपत्ता, अथ स्त्री नपुंसकं वा ततः खखवेदखण्डद्वयं, ततः क्षिप्यमाणवेदतृतीयखण्डसहि संज्वलनकोपं क्षपयति, एवं पूर्वपूर्वाशसहितमुत्तरोत्तरं क्षपयति यावत् संज्वलनलोभः, तत्तृतीयखण्डं तु सङ्खयेयानि खण्डानि कृत्वा पृथक्कालभेदेन क्षपयति, तत्र च तत्क्षपणाकालः प्रत्येकं सर्वत्र चान्तर्मुहूर्तमेव, इत्थं चैतदन्तर्मुहूर्तस्या सङ्ख्यभेदत्वात् , ततस्तच्चरमखण्डमपि पुनरसङ्खयेयसूक्ष्मखण्डानि करोति. तानि च प्रतिसमयमेकैकतया क्षपयति, तचरमखण्डमपि पुनरसङ्ख्येयसूक्ष्मखण्डानि कृत्वा तथैव क्षपयति. एवं च मोहनीयं क्षपयित्वाऽन्तर्मुहूत्ते यथाख्यातचारित्रमनुभवंश्छद्मस्थवीतरागताद्विचरमसमययोः प्रथमसमये निद्राप्रचले नाम प्रकृतीश्च देवगत्याद्याःक्षपयति, यत उक्तम्-"वीस मिऊण नियंठो दोहि उ समएहिं केवले सेसे । पढमे णिहं पयलं णामस्स इमाओं पयडीओ॥१॥ देवगति आणुपुच्ची विउवि संघयण पढमवज्जाई। अन्नयरं संठाणं तित्थयराहारणामं च ॥२॥" चरमसमये तु यत्क्ष
१ प्रचलाप्रचलां च । स्त्यानद्धि क्षपयति तदा अवशेष यच्चाष्टानाम् ॥ २॥ २ विश्रम्यनिर्ग्रन्थो द्वाभ्यां तु समयाभ्यां केवले शेर्षे । प्रथमे निद्रां प्रचलां नान इमाः प्रकृतीः ॥ १॥ देवगत्यानुपूव्यौँ वैक्रियं संहनानि प्रथमवर्जानि । अन्यतरत् संस्थानं तीर्थंकरमाहारकनाम च ॥ २॥
Jain Education Interational
For Personal & Private Use Only
wwwbar og