SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥५९७॥ RECORRESS त्यागा विप्रहाणयो, व्यक्त्यपेक्षं बहुवचनं, ताभिः, किमुक्तं भवति ?-सर्वथा परिशाटेन, न तु यथा पूर्व सङ्घातपरि-13 सम्यक्त्वशाटाभ्यां देशत्यागतः, 'विप्पजहित्ता'विशेषेण प्रहाय-परिशाट्य, उक्तं हि-“ओरालियाहिं सवाहिं चयइ विप्पजह पराक्रमा. पणाहि जं भणियं । णिस्सेसतया ण जधा देसचाएण सो पुवं ॥१॥" चशब्दोऽत्रौदयिकादिभावनिवृत्तिमस्थान|क्तामपि समचिनोति, यत उक्तम्-"तस्सोदइयाभावा भवत्तं च विणियत्तए जुगवं । सम्मत्तनाणदंसणसुहसिद्धत्ताणि मोत्तणं ॥१॥" ऋजुः-अवक्रा श्रेणिः-आकाशप्रदेशपलिस्तां प्राप्त ऋजुश्रेणिप्राप्तः अनुश्रेणिगत इतियावत्, | 'अफसमाणगई'त्ति अस्पृशद्गतिरिति, नायमों यथा नायमाकाशप्रदेशान्न स्पृशति अपि तु यावत्सु जीवोऽवगाढ|स्तावत एव स्पृशति न तु ततोऽतिरिक्तमेकमपि प्रदेशम्, 'ऊर्द्धम्' उपरि 'एकसमयेन' द्वितीयादिसमयान्तरास्पशेन 'अविग्रहेण' वक्रगतिरूपविग्रहाभावेन, अन्वयव्यतिरेकाभ्यामुक्तोऽर्थः स्पष्टतरो भवतीति अनुश्रेणिप्राप्त इत्यनेन गतार्थत्वेऽपि पुनरभिधानं, 'तत्र' इति विवक्षिते मुक्तिपद इतियावत् 'गंत'त्ति गत्वा 'साकारोपयुक्तः' ज्ञानोपयोगवान् सिध्यतीत्यादि यावदन्तं करोतीत्यादि प्राग्वत्, उक्तं च-"उजुसेटिं पडिवण्णो समयपएसंतरं अफुसमाणो। एगसमएण सिज्झइ अह सागारोव उत्तो सो ॥१॥” इति, द्वासप्ततिसूत्रार्थः । इह च चूर्णिकृता-“सेलेसी ॥५९७॥ १ चत्तारि कम्मसे खवेईत्यतः सूत्रपार्थक्यं ज्ञेयमत एवादौ त्रिसप्ततिप्रश्नाङ्काः त्रिसप्ततिसूत्राणीत्युपक्रमश्च, सूत्रसंख्या तु द्वासप्ततिरिति अतो द्वासप्ततिसूत्रार्थः इत्युपसंहारः, मन्ये चात एवाकर्मताफलदर्शकं चूर्णिकृन्मतं सूत्रविषयं मतान्तरमुपादर्शि सूरिणा । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy