________________
अनयोः समाहारस्तस्मिन् , आरम्भः-अत्यन्तक्लेशतः परप्राणापहारक्षममशुभध्यानमेव तस्मिन् 'चः' समुच्चये 'तथैव' तेनैवागमप्रतीतेन तत्र मनसोऽसन्निवेशात्मकेन प्रकारेण 'चः' पूरणे 'मनः' चित्तं 'प्रवर्त्तमानं व्याप्रियमाणं 'तुः' विशेषणे 'निवर्तयेत्' नियमयेत् 'जयंति यतमानः 'यतिः' तपखी। विशेषश्चायमिह-शुभसङ्कल्पेषु मनःप्रवर्तयेत् , प्रवीचाराप्रवीचाररूपत्वाद्गुप्तेरिति सूत्रद्वयार्थः ॥ वागगुप्तिमाह__ सच्चा तहेव मोसा य, सच्चामोसा तहेव य। चउत्थी असचमोसा य, वयगुत्ती चउब्विहा ॥ २२॥
संरंभसमारंभे, आरंभे य तहेव य । वयं पवत्तमाणं तु, नियत्तिज जयं जई ॥२३॥ सूत्रद्वयमनन्तरं व्याख्यातमेव, नवरं मनोगुप्तिस्थाने वागगुप्तिरुच्चारयितव्या, तथा सत्या वाक् जीवं जीवमिति प्ररूपयतः असत्या जीवमजीवमिति संत्यामृषा क्वचिद्विवक्षितसमये मनुष्यशतमुत्पन्नमुपरतं चेति असत्यामृषा तु विधेहि खाध्यायं नैतत्सदृशमन्यत्तपोऽस्तीत्यादि, तथा वाचिकः संरम्भः-परव्यापादनक्षमक्षुद्रविद्यादिपरावर्तनासङ्कल्पसूचको ध्वनिरेवोपचारात्सङ्कल्पशब्दवाच्यः सन् , समारम्भः-परपरितापकरमत्रादिपरावर्त्तनम् 'आरम्भः' तथाविधसंक्लेशतः प्राणिनां प्राणव्यपरोपणक्षममन्त्रादिजपनमिति सूत्रद्वयार्थः ॥ इदानीं कायगुप्तिमभिधातुमाह
ठाणे निसीयणे चेव, तहेव य तुयट्टणे । उल्लंघण पल्लंघण, इंदियाण य झुंजणे ॥२४॥ __ संरंभसमारंभे, आरंभे य तहेव य । कायं पवत्तमाणं तु, नियत्तिज जयं जई ॥२५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org