________________
उत्तराध्य.
प्रवचनमा
बृहद्वृत्तिः
त्राख्यम्.
॥५१८॥
२४
5AMCHECCESCOMSEELCAS
| स्थण्डिल इति शेषः, 'उच्चारादीनि' उक्तरूपाणि 'व्युत्सृजेत्' परिष्ठापयेत् । इह चोचारं प्रश्रवणमित्यादावुक्तेऽपि पुनरुच्चारादीनीयभिधानं विस्मरणशीलस्मरणार्थमदुष्टमेवेति सूत्रचतुष्टयार्थः ॥ सम्प्रत्युक्तमुपसंहरन् वक्ष्यमाणार्थसम्बन्धाभिधानायाह
एयाओ पंच समिईओ, समासेण वियाहिया। इत्तो उ तओ गुत्तीओ, बुच्छामि अणुपुव्वसो॥१९॥ निगदसिद्धं, नवरम् ‘एत्तो'त्ति अतश्च समितिप्रतिपादनानन्तरं 'तओ'त्ति तिस्रः 'अणुपुत्वसो'त्ति आर्षत्वादानुपूर्व्या क्रमेणेत्यर्थः ॥ तत्राद्यां मनोगुप्तिमाह
सच्चा तहेव मोसा य, सच्चामोसा तहेव य । चउत्थी असच्चमोसा य, मणगुत्ती चउविहा ॥२०॥
संरंभसमारंभे, आरंभे य तहेव य । मणं पवमाणं तु, नियत्तिज जयं जई ॥२१॥ सद्यः-अर्थात्पदार्थेम्यो हितो-यथावद्विकल्पनेनाप्तः सत्यो मनोयोगस्तद्विषया मनोगुप्तिरप्युपचारात्सत्या, तथैव मृषा च-तद्विपरीतमनोयोगविषया, 'सत्यामृषा' उभयात्मकमनोयोगगोचरा, तथैव चेति समुच्चये, चतुर्थी 'असत्यामृषा' उभयखभावविकलमनोदलिकव्यापाररूपमनोयोगगोचरा मनोगुप्तिः, प्रक्रमाञ्च सर्वत्रैवं योजना, उपसंहारमाह-मनोगुप्तिः 'चतुर्विधा' उक्तभेदतश्चतुर्भेदा, अस्या एव स्वरूपं निरूपयन् काक्कोपदेष्टुमाह-संरम्भः-सङ्कल्पः स च मानसः तथाऽहं ध्यास्यामि यथाऽसौ मरिष्यतीत्येवंविधः, समारम्भः-परपीडाकरोचाटनादिनिबन्धनं ध्यानम् ,
॥५१८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org