________________
गोमयादि 'अपिः' पूरणे तथाविधं परिष्ठापनाह प्रक्रमात्स्थण्डिले व्युत्सृजेदित्युत्तरेण सम्बन्धः । स्थण्डिलं च दशविशेषणपदविशिष्टमिति मनस्याधाय तद्गताखिलभङ्गोपलक्षणार्थमाद्यविशेषणपदयोभङ्गरचनामाह-अविद्यमान आपातःखपरोभयपक्षसमीपागमनरूपोऽस्मिन्नित्यनापातं स्थण्डिलमिति गम्यते, "असंलोए'त्ति सूत्रत्वादिहोत्तरत्र च लिङ्गव्यत्यये न विद्यते संलोको-दूरस्थितस्यापि खपक्षादेरालोको यस्मिंस्तत्तथेति प्रथमो भङ्गः १, 'अनापातं चैव भवति संलोक' यत्रापातो नास्ति संलोकश्चास्तीति द्वितीयो भङ्गः २, 'आपातमसंलोक मिति यत्रापातोऽस्ति न च संलोक इति तृतीयः ३. 'आपातं चैव संलोक' यत्रोभयमपि संभवतीति चतुर्थः ४, इह चापातसंलोकमिति च अर्शआदेराकृतिगणत्वान्मत्वर्थीयेऽचि द्रष्टव्यं काका दशविशेषणपदज्ञानार्थ, तानि यादृशे स्थण्डिले व्युत्सृजेत्तदाह-अनापाते असंलोके, कस्य पुनरयमापातः संलोकश्चेत्याह-'परस्य' खपक्षादेः, गमकत्वाचोभयत्र सापेक्षत्वेऽपि समासः,ई। उपघातः-संयमात्मप्रवचनबाधात्मको विद्यते यत्र तदुपघातिकं न तथाऽनुपघातिकं तस्मिन् , तथा 'समे' निम्नोनतत्ववर्जिते 'अशुषिरे वाऽपि' तृणपर्णाद्यनाकीर्णे 'अचिरकालकृते च' दाहादिना खल्पकालनिर्वर्तिते, चिरकालकृते हि पुनः संमूर्छन्त्येव पृथ्वीकायादयः, 'विस्तीर्णे' जघन्यतोऽपि हस्तप्रमाणे 'दूरमवगाढे' जघन्यतोऽप्यधस्ताच्चतुरङ्गुलमचित्तीभूत्ते 'नासन्ने' ग्रामारामादेर्दूरवर्तिनि 'विलवर्जिते' मूषकादिरन्धरहिते त्रसप्राणाश्च-द्वीन्द्रियादयो बीजानि च-शाल्यादीनि, सकलैकेन्द्रियोपलक्षणमेतत् , तैस्तत्रस्थैरागन्तुकैश्च रहितं-वर्जितं त्रसप्राणबीजरहितं तस्मिन् ,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org