________________
म्यक्त्वसमान्यति . ततश्च पर्मिति
यति' न ज्ञानदशेनप्रकासंयोजयन्' प्रातसार
CCCCCCASEARCCCCX
तथा खसमयपरसमययोः संघातनीयः-प्रमाणपुरुषतया मीलनीयः खसमयपरसमयसंघातनीयो भवति, इह च खसमयपरसमयशब्दाभ्यां तद्वेदिनः पुरुषा उच्यन्ते, तेष्वेव संशयादिव्यवच्छेदाय मीलनसंभवात् ५९ । 'दर्शनसंपन्नतया' क्षायोपशमिकसम्यक्त्वसमन्वितया भवहेतुभूतं मिथ्यात्वं भवमिथ्यात्वं तस्य छेदनं-क्षपणं भवमिथ्यात्वच्छेदनं करोति,कोऽर्थः ?-क्षायिकसम्यक्त्वमवाप्नोति, ततश्च परमिति-उत्तरकालमुत्कृष्टतस्तस्मिन्नेव भवे मध्यमजघन्यापेक्षया तृतीये तुर्ये वा जन्मन्युत्तरश्रेण्यारोहणेन केवलज्ञानावाप्तौ 'न विध्यायति' न ज्ञानदर्शनप्रकाशाभावरूपं विध्यानमवामोति, किन्तु 'अनुत्तरेण' क्षायिकत्वात्प्रधानेन ज्ञानं च दर्शनं च ज्ञानदर्शनं तेन 'आत्मानं' खं 'संयोजयन्' प्रतिसम
यमपरापरेणोपयोगरूपतयोत्पद्यमानेन घटयन् , संयोजनं च भेदेऽपि स्यादत आह-(सम्म-सम्यक) 'भावयन्' तेनादात्मानमात्मसान्नयन् 'विहरति' भवस्थकेवलितया मुक्ततया वाऽऽस्ते, पठन्ति च-'अणुत्तरेणं णाणदसणेणं विहरइति * अत्र च लक्षणे तृतीया ६० ।चरित्रसंपन्नतया 'शैलेशीभावं'ति शिलानामिमे शैलाः-पर्वतास्तेषामीशः शैलेशो-मेरुः
स इव शैलेशो-मुनिनिरुद्धयोगतयाऽत्यन्तस्थैर्येण तस्येयमवस्था-शैलेशीतस्या भावः अशैलेशस्य वा शैलेशीभवनं शैलेशीभावः, इत्यादिरनेकधा व्युत्पत्तिः, उक्तं हि-"सेलेसो किर मेरू सेलेसी होइ तहाऽचलया। होउं व असेलेसो | सेलीसी होइ थिरयाए ॥१॥ अहवा सेलोच इसी सेलेसी होइ सो हु थिरयाते । सेव असेली होई सेलीसी | १ शैलेशः किल मेरुः शलेशी भवति या तथाऽचलता । भूत्वा वाऽशैलेशः शैलेशीभवति स्थिरतया ॥१॥ अथवा शैल इव ऋषिः शैलर्षिः (सेलेसी) भवति स एव स्थिरतया । स एव अशैलीभवति शैलेशी
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org