SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य.. सम्यक्त्व पराक्रमा. बृहद्धृत्तिः ॥५९॥ २२ होअलोवाओ॥२॥सीलं व समाहाणं णिच्छयतो सवसंवरो सो य। तस्सेसो सीलेसो सेलेसी होइ तयवत्था ॥३॥" तमेवंविधं शैलेशीभावं जनयति, तजननाच शैलेशीप्रतिपन्नो 'विहरति आस्तेऽन्तर्मुहूर्तमिति शेषः, पठन्ति च| 'सेलेसी पडिवन्ने अणगारे चत्तारि केवलिकम्मसे खवेति, ततो पच्छा सिज्झति बुज्झइ' इत्यादि प्राग्वत् ६१ । चरित्रं चेन्द्रियनिग्रहादेव जायत इति प्रत्येकं तन्निग्रहमाह-श्रोत्रेन्द्रियस्य निग्रहः-खविषयाभिमुखमनुधावतो नियमनं श्रोत्रेन्द्रियनिग्रहस्तेन 'मनोज्ञामनोज्ञेषु' अभिमतेतरेषु शब्देषु यथाक्रमं रागद्वेषयोर्निग्रहो रागद्वेषनिग्रहस्तं जनयति, तथा च तत्प्रत्ययिकं-रागद्वेषनिमित्तं कर्म न बनाति पूर्वबद्धं च निर्जरयति, तन्निग्रहे शुभाध्यवसायप्रवृत्तेरिति भावः। एवं चक्षुरिन्द्रियनिग्रहेण ६३ घाणेन्द्रियनिग्रहेण ६४ जिह्वेन्द्रियनिग्रहेण ६५ स्पर्शनेन्द्रियनिग्रहेण च इदमेव वाच्यं, नवरं चक्षुरिन्द्रियेष्वित्युपचाराच्चक्षुरिन्द्रियग्राह्येषु रूपेष्विति योऽर्थः, यथाप्रधानं चात्रेन्द्रियनिर्देशः, प्राधान्यं च पाटवाद्यपेक्षमिति भावनीयम् ६६ । एतन्निग्रहोऽपि कषायविजयाद्भवत्यतः क्रमेण तद्विजयमाह-तत्र क्रोधस्य विजयोदुरन्तादिपरिभावनेनोदयनिरोधः क्रोधविजयस्तेन क्रोधेन-कोपाध्यवसायेन वेद्यत इति क्रोधवेदनीयं-तद्धेतुभूतपुद्गलरूपं कर्म न बनाति "जं वेएइ तंबंधई"त्ति वचनात् , तथा पूर्वबद्धं प्रक्रमात्तदेव निर्जरयति, तत एव विशिष्टजीववीोल्लासात् ६७ । एवं मानविजयेन ६८ मायाविजयेन ६९ लोभविजयेन ७० चाभिधेयम् । एतज्जयश्च न प्रेमद्वेषमि१ भवत्यलोपात् ॥ २ ॥ शीलं वा समाधानं निश्चयतः सर्वसंवरः स च । तस्येशः शैलेशः शैलेशी भवति तदवस्था ॥ ३ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy