________________
उत्तराध्य.
बृहद्वृत्तिः
॥५९२॥
कत्वं निर्जरयति ५७ । 'कायसमाहारणयाए'त्ति 'कायसमाधारणया' संयमयोगेषु शरीरस्य सम्यग्व्यवस्थापनरूपया
सम्यक्त्व'चरित्रपर्यवान्' चारित्रभेदान् क्षायोपशमिकानिति गम्यते विशोधयति, तदुन्मार्गप्रवृत्तित एव प्रायस्तेषामतीचारकालुष्यसम्भवात्, चरित्रपर्यवान् विशोध्य यथाख्यातचारित्रं विशोधयति, सर्वथा बसत उत्पत्त्यसम्भव इति पूर्वमपि।
पराक्रमा. कथञ्चित्सदेव यथाख्यातचारित्रं चारित्रमोहोदयमलिनितं तन्निर्जरणेन निर्मलीकुरुते, यथाख्यातचारित्रं विशोध्य चत्वारीत्यादि सर्व प्राग्वत् ५८ । एवं समाधारणात्रयाद्यथाक्रमं ज्ञानादित्रयस्य शुद्धिरुक्ता, फलं पुनरस्य किमित्याशङ्कायां यथाक्रममेतत्फलमाह-ज्ञानमिह प्रस्तावात् श्रुतज्ञानं तत्संपन्नतया जीवः सर्वभावानाम्-अशेषजीवादिहै पदार्थानामभिगमो-ज्ञानं सर्वभावाभिगमस्तं जनयति, तथा सं(तत्सं)पन्नो जीवः 'चाउरते'त्ति उक्तनीतितश्चतुर|न्तसंसारकान्तारे नैव 'विनश्यति' इतस्ततः पर्यटनेन मुक्तिमार्गाद्विशेषेण दूरीभवति, अमुमेवार्थ दृष्टान्तद्वारेण स्पष्ट|तरमाह-यथा 'सूची' प्रतीता ससूत्रा सुप्रापतया 'न विनश्यति' कचवरादिपतिताऽपि न विशेषेण दूरीभवति तथा जीवः सह सूत्रेण-श्रुतेन वर्तत इति ससूत्रः संसारे न विनश्यति, उक्तं च-"सूई जहा ससुत्ता ण णस्सई कयवरंमि पडियावि । जीवो तहा ससुत्तो ण णस्सइ गओवि संसारे ॥१॥" तत एव ज्ञानं च-अवध्यादि विनयश्च-ज्ञान
५९२॥ | विनयादिः तपश्च-वक्ष्यमाणं चारित्रयोगाः-चारित्रप्रधाना व्यापारा ज्ञानविनयतपश्चारित्रयोगास्तान् प्राप्नोति, | १ सूचिर्यथा ससूत्रा न नश्यति कचवरे पतिताऽपि । जीवस्तथा सश्रुतो न नश्यति गतोऽपि संसारे ॥ १ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org