SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ यगुप्तिमान् 'संवरम्' अशुभयोगनिरोधरूपं जनयति, संवरेण गम्यमानत्वादभ्यस्यमानेन कायगुप्तः पुनः सर्वथा - निरुद्ध कायिकव्यापारः पापस्य - 'पावे कम्मे वेरे' इत्यादिवचनात्कर्मण आश्रवा - उपादानहेतवो हिंसादयः पापाश्रवास्तन्निरोधं करोति, तात्त्विक्या अस्या एतत्फलत्वेन सुप्रतीतत्वात् ५५ । इतश्च गुप्तित्रयाद्यथाक्रमं मनः समाधारणादिसम्भव इति तदाह - तत्र 'मणसमाहारणयाए 'त्ति मनसः समिति - सम्यग् आङिति - मर्यादयाऽऽगमाभिहितभावाभिव्यात्याऽवधारणा - व्यवस्थापनं मनः समाधारणा तथा 'एकाग्र्यम्' उक्तरूपं जनयति, एकाग्र्यं जनयित्वा 'ज्ञानपर्यवान्' विशिष्टतरवस्तुतत्त्वावबोधरूपान् जनयति, ज्ञानपर्यवान् जनयित्वा सम्यक्त्वं विशोधयति, विशुद्धत्वं चास्य वस्तुतत्त्वावगमे तद्विषया रुचिरपि शुद्धतरैव संभवतीतिकृत्वा, अत एव च मिथ्यात्वं च निर्जरयति ५६ । 'वइसमाहारणयाए 'त्ति 'वाक्रसमाधारणया' खाध्याय एव वाग्निवेशनात्मिकया, वाचा सधारणा वाक्समा धारणा, येन ते वचसोऽपि विषयाः, प्रज्ञापनीया इत्यर्थः तेषामेवान्यथात्वसम्भवेन विशेषणसाफल्यात्, इह च तद्विषया दर्शनपर्यवा अप्युपचारतस्तथोक्तास्ततश्च वाक्साधारणाश्च ते दर्शनपर्यवाश्च सम्यक्त्वभेदरूपा वाक्साधारणदर्शनपर्यवास्तान् विशोधयति, 'देविए दंसणसोधी' इति वचनाद्द्रव्यानुयोगाभ्यासतस्तद्विषयाशङ्कादिमालिन्यापनय| नेन विशुद्धान् करोति, वाक्साधारणदर्शनपर्यवान् विशोध्य सुलभबोधिकत्वं निर्वर्त्तयति, तत एव दुर्लभबोधि१ द्रव्यानुयोगाद्दर्शनशुद्धिः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy