SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥५९१॥ प्रेस जिनधर्मावीत्या विशिष्टभवान्तरप्राप्त्या वेति भावः ५० । भावसत्येन करणसत्यं संभवतीति तदाह करणे सम्यक्त्व सत्यं करणसत्यं यत्प्रतिलेखनादिक्रियां यथोक्तां सम्यगुपयुक्तः कुरुते तेन करणशक्तिं तन्माहात्म्यात् पुराऽनध्यव पराक्रमा. |सितक्रियासामर्थ्यरूपां जनयति, तथा करणसत्ये वर्तमानो जीवो यथावादी तथाकारी चापि भवति, स हि सूत्रमधीयानो यथैव क्रियाकलापवदनशीलः करणशीलोऽपि तथैवेति ५१ । एवंविधस्यैव योगसत्यमपि भवतीति तदाहयोगा-मनोवाकायास्तेषां सत्यम्-अवितथत्वं योगसत्यं तेन योगान् 'विशोधयति' क्लिष्टकर्मबन्धकत्वाभावतो निर्दोषान् करोति ५२ । एतच्च सत्यं गुप्त्यन्वितस्यैव भवत्यतो यथाक्रमं तदभिधानं, तत्र च 'मनोगुप्ततया' मनोगुप्तिरूपया जीवः ऐकायं प्रस्तावाद्धमैकतानिचित्तत्वं जनयति, तथा चैकाग्रचित्तो जीवो गुप्तम्-अशुभाध्यवसायेषु गच्छद्रक्षितुं मनो येनासौ गुप्तमनाः सन् , निष्ठान्तस्य परनिपातःप्राग्वत्, संयमाराधको भवति, तत्र मनोनिरोधस्य प्रधानत्वादिति भावः ५३ । 'वाग्गुप्ततया' कुशलवागुदीरणरूपया 'निर्विकारं' विकथाद्यात्मकवाग्विका-||4|| राभावं जनयति, ततश्च निर्विकारो जीवो वाग्गुप्त इति, प्रवीचाराप्रवीचाररूपत्वेन द्विविधत्वात्तद्गतेः सर्वथा वाग्निरोधलक्षणवाग्गुप्तिसमन्वितः सन्नध्यात्म-मनस्तस्य योगा-व्यापारा धर्मध्यानादयस्तेषां साधनानि-एकाग्रतादीनि ॥५९१॥ तैयुक्तोऽध्यात्मयोगसाधनयुक्तो भवति, विशिष्टवाग्गुप्तिरहितो हि न चित्तैकाग्रतादिभाग् भवेदिति भावः, अन्ये तु 'निधियारेणं जीवे वयगुत्तयं जणयति' इत्येतावदेव पठन्ति, तच स्पष्टमेव ५४ । 'कायगुप्तः' शुभयोगप्रवृत्त्यात्मकका. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy