SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ द्विचिन्तयन लोकपत्यादिनिमित्तम् अन्यद्वाचा कायेन वा समाचरति तत्परिहाररूपा, एवं भाषायामृजुकता भाषर्जुकता-यदुपहासादिहेतोरन्यदेशभाषया भाषणं तत्परित्यागात्मिका, तथा-'अविसंवादनं' पराविप्रतारणं जनयति, तथाविधश्चाविसंवादनसंपन्नतयोपलक्षणत्वात्कायर्जुकतादिसंपन्नतया च जीवो धर्मस्याराधको भवति, विशुद्धाध्यवसा-2 यत्वेनान्यजन्मन्यपि तदवाप्तेः ४८ । एवंगुणस्यापि न विनयं विना समग्रफलावाप्तिः, स च मार्दवादेवेति तदाह-'मद्दहै वयाए'त्ति मार्दवेन गम्यमानत्वाभ्यस्यमानेन 'मिउमहवसंपन्नेत्ति मृदुः-द्रव्यतो भावतश्चावनमनशीलस्तस्य (भावः। कर्म वा) मार्दवं यत्सदा मार्दवोपेतस्यैव भवति तेन संपन्नः-तदभ्यासात्सदा मृदुखभावो मृदुमार्दवसंपन्नः सन् 'अष्टौ | मदस्थानानि' जातिकुलबलरूपतपऐश्वर्यश्रुतलाभावलेपरूपाणि,उक्तं हि-"जातीकुलबलरूवे तवईसरिएसुएलाभे"त्ति, |'निष्ठापयति' विनाशयति, पठन्ति च-'मद्दवयाए णं जीवे अणुस्सियत्तं जणेति, अणुस्सिए णं जीवे मिउमद्दवसंपन्ने अट्ट मयट्ठाणाणि णि?वेति' अत्र चानुत्सिक्तत्वम्-अनुभूतत्वमन्यत्प्राग्वत् ४९। एतदपि तत्त्वतः सत्यव्यवस्थितस्यैव भवति, तत्रापि च भावसत्यं प्रधानमिति तदाह-'भावसत्येन' शुद्धान्तरात्मतारूपेण पारमार्थिकावितथत्वेन 'भावविशुद्धिं' विशुद्धाध्यवसायात्मिकां जनयति, भावविशुद्धौ वर्तमानो जीवोऽहत्प्रज्ञप्तस्य धर्मस्य ‘आराहणयाए'त्ति 'आराधनया' | अनुष्ठानेन 'अभ्युत्तिष्ठते' मुक्त्यर्थमुत्सहते, यदिवाऽऽराधनायै-आवर्जनार्थमभ्युत्तिष्ठति, अर्हत्प्रज्ञप्तस्य धर्मस्याराधनयाऽऽराधनायै वाऽभ्युत्थाय परलोके-भवान्तररूपे धर्मः परलोकधर्मस्तस्य, पाठान्तरतः परलोके वाऽऽराधको भवति, Join Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy