SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ SSRSRSRSRSRSRSRSR करणतः, तथा 'प्रकटलिङ्गः' स्थविरादिकल्परूपेण व्रतीति विज्ञायमानत्वात् 'प्रशस्तलिङ्गः' जीवरक्षणहेतुरजोहरणादिधारकत्वाद् विशुद्धसम्यक्त्वः' तथाप्रतिपत्त्या सम्यक्त्वविशोधनात्, तथा सत्त्वं च-आपत्सवैकल्यकरमध्यवसानकर च समितयश्च-उक्तरूपाः समाप्ताः-परिपूर्णा यस्य स समाप्तसत्त्वसमितिः, सूत्रे निष्टान्तस्य प्राकृतत्वात्परनिपातः, तत एव सर्वप्राणभूतजीवसत्त्वेषु विश्वसनीयरूपः, तत्पीडापरिहरित्वात् , 'अपडिलेह'त्ति अल्पार्थे नञ्, ततोऽप्रत्युपेक्षित इत्यल्पोपकरणत्वादल्पप्रत्युपेक्षः, पठ्यते च-'अप्पपडिलेहित्ति, जितानि-वशीकृतानि यतिरहमितिप्रत्ययात्कथञ्चित्परिणामान्यथात्वेऽपीन्द्रियाणि येन स तथा, विपुलेन-अनेकभेदतया विस्तीर्णेन तपसा समितिभिश्च सर्वविषयानुगतत्वेन विपुलाभिरेव समन्वागतो-युक्तो विपुलतपःसमितिसमन्वागतश्चापि भवति, पूर्वत्र समितीनां परिपूर्णत्वाभिधानेन सामस्त्यमुक्तम् , इह तु तासां सार्वत्रिकत्वमिति न पौनरुक्त्यम् ४२ । प्रतिरूपतायामपि वैयावृत्त्यादेव विशिष्टफलावाप्तिरित्येतदनन्तरं वैयावृत्त्यं, तत्र व्यावृतः-कुलादिकार्येषु व्यापारवांस्तद्भावो वैयावृत्त्यं तेन तीर्थकरनामगोत्रं कर्म निवनाति, उक्तं हि तद्धेतुकीर्तनावसरे-"वेयावचे समाही य"त्ति ४३ । वैयावृत्त्यवांश्च सर्वगुणभाजनं भवतीति सर्वगुणसंपन्नतामाह-सर्वगुणा-ज्ञानादयस्तैः संपन्नो-युक्तस्तद्भावः सर्वगुणसंपन्नता तया 'अपुनरावृत्तिं' पुनरिहागमनाभावो मुक्तिरितियावत्तां जनयति, अपुनरावृत्तिं प्राप्त एव प्राप्तको जीवः शारीरमानसानां दुःखानां 'नो' नैव 'भागी' भाजनं भवति, तन्निबन्धनयोहमनसोरभावात् , सिद्धिसुखभाजनमेव भवतीति Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy