________________
उत्तराध्य.
बृहद्वृत्तिः
॥५८९ ॥
मानक्रोधादिः 'अप्पतुमंतुमि त्ति अल्पम् - अविद्यमानं त्वं त्वमिति खल्पापराधिन्यपि त्वमेवं पुराऽपि कृतवान् त्वमेवं | सदा करोषीत्यादि पुनः पुनः प्रलपनं यस्य स तथा, संयमबहुलः संवरबहुल इति प्राग्वद्, अत एव 'समाहीए यावित्ति 'समाहितः' ज्ञानादिसमाधिमश्चापि भवति ३९ । एवंविधश्वान्ते भक्तप्रत्याख्याता भवतीति तत्प्रत्याख्यानमाह| 'भक्तप्रत्याख्यानेन' आहारपरित्यागरूपेण भक्तपरिज्ञादिना अनेकानि भवशतानि निरुणद्धि, तथाविधदृढाध्यवसायतया | संसाराल्पत्वापादनादिति भावः ४० । साम्प्रतं सकलप्रत्याख्यानप्रधानं सद्भावप्रत्याख्यानमाह-तत्र सद्भावेन - सर्वथा पुनःकरणासंभवात्परमार्थेन प्रत्याख्यानं सद्भावप्रत्याख्यानं सर्वसंवररूपा शैलेशीतियावत् तेन, न विद्यते निवृत्तिःमुक्तिमप्राप्य निवर्त्तनं यस्मिंस्तद् अनिवृत्ति शुक्लध्यानं चतुर्थभेदरूपं जनयति, पाठान्तरतश्च 'निवृत्तिं' द्विसमयस्थितिकस्यापि वेद्यकर्मणो बन्धव्यावृत्तिं जनयति, 'अणियहिं पडिवण्णे य'त्ति प्रतिपन्नानिवृत्तिः पाठान्तरतः प्रतिपन्ननिवृत्तिश्वानगारः 'चत्वारि' चतुःसङ्ख्यानि केवलिनः 'कस्मंस'त्ति कार्मग्रन्थिकपरिभाषयाऽंशशब्दस्य सत्पर्यायत्वात् सत्कर्माणि केवलिसत्कर्माणि भवोपग्राहीणि क्षपयति, शेषं स्पष्टम् ४१ । एतच्च प्रत्याख्यानं प्रायः प्रतिरूपताया| मेव भवतीति तामाह - 'पडिरूवयाए 'त्ति, प्रतिः - सादृश्ये, ततः प्रतीति - स्थविरकल्पिकादिसदृशं रूपं - वेषों यस्य |स तथा तद्भावस्तत्ता तया - अधिकोपकरणपरिहाररूपया लाघवमस्यास्तीति लाघवी तद्भावो लाघविता तां द्रव्यतः | स्वल्पोपकरणत्वेन भावतस्त्वप्रतिबद्धतया जनयति, लघुभूतश्च जीवः 'अप्रमत्तः' प्रमादहेतूनां परिहारत इतरेषां चांङ्गी
Jain Education International
For Personal & Private Use Only
सम्यक्त्व
पराक्रमा.
२९
||५८९॥
www.jainelibrary.org