________________
वीतरागस्तद्भावं जनयति, 'वीतरागभावपडिवन्ने य' त्ति, अपिचेत्यस्य पुनरर्थत्वात्प्रतिपन्नवीतरागभावः पुनर्जीवः समे - रागद्वेषाभावतस्तुल्ये सुखदुःखे यस्य स तथाविधो भवति, रागद्वेषाभ्यां हि तत्र वैषम्यसम्भवः, तदभावे तु समतैवावशिष्यते ३६ । निष्कपायोऽपि योगप्रत्याख्यानादेव मुक्तिसाधक इति तदुच्यते, तत्र योगा - मनोवाक्काय| व्यापारास्तत्प्रत्याख्यानेन - तन्निरोधलक्षणेन 'अयोगत्वं' वक्ष्यमाणन्यायेनायोगिभावं जनयति, अयोगी जीवः ( 'नव' प्रत्यग्रं 'कर्म' सातावेदनीयाद्यपि न बध्नाति तत्कारणयोगाभावात् ) 'पूर्ववद्धम्' इति भवोपग्राहि कर्मचतुष्टयमन्यस्य तदाऽसंभवात् 'निर्जरयति' क्षपयति ३७ | योगप्रत्याख्यानतः शरीरमपि प्रत्याख्यातमेव भवति, तथाऽपि तदाधा| रत्वान्मनोवाग्योगयोस्तत्प्राधान्यख्यापनार्थं तत्प्रत्याख्यानमेवाह, तत्र शरीरम् — औदारिकादि तत्प्रत्याख्यानेन सिद्धानामतिशयगुणा न कृष्णा न नीला इत्यादयो यस्य स सिद्धातिशयगुणो गमकत्वाद्बहुव्रीहिस्तद्भावस्तत्त्वम् उक्तं हि"से ण किण्हे ण नीले ण हालिदे" इत्यादि 'निर्वर्त्तयति' जनयति, सिद्धातिशयगुणसंपन्नश्च जीवो लोकाग्रभवत्वात् लोकाग्रं - मुक्तिपदम् 'उपगतः प्राप्तः 'परमसुखी' अतिशय सुखवान् भवति ३८ । सम्भोगादिप्रत्याख्यानानि च प्रायः सहायप्रत्याख्यान एव सुकराणि भवन्तीति तदुच्यते - सहायाः - साहाय्यकारिणो यतयस्तत्प्रत्याख्यानेन - तथाविधयोग्य| ताभाविनाऽभिग्रह विशेष रूपेण 'एकभावम्' एकत्वं जनयति 'एकीभावभूतश्च' एकत्वप्राप्तश्च जीवः एकालम्बनत्वं 'भावयन् ' अभ्यस्यन् 'अप्पझंझ' त्ति अल्पशब्दोऽभाववचनः, ततश्चाल्पझञ्झः - अविद्यमानवाक्कलहस्तथाऽल्पकपायः - अविद्य
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org