________________
उत्तराध्य.
सम्यक्त्व
पराक्रमा.
बृहद्वृत्तिः
૩૮૮
ROCCA***
स्तदभावोऽपरिमन्थस्तं जनयति, तथा निष्क्रान्त उपधेर्निरुपधिको जीवः 'निष्कासः' वस्त्राद्यभिलाषरहितः सन् , एतच्च पदं क्वचिदेव दृश्यते, उपधिमन्तरेण चस्य भिन्नक्रमत्वान्न संक्लिश्यति-न च मानसं शारीरं वा क्लेशमानोति, उक्तं हि-"तस्स णं भिक्खुस्स णो एवं भवति-परिजुन्ने मे वत्थे सूई जाइस्सामि संधिस्सामि उक्कंसिस्सामि तुण्णिस्सामि वोक्कसिस्सामि" इत्यादि ३४। उपधिप्रत्याख्याता चाहारमपि प्रत्याचष्टे, यतो जिनकल्पिकादिरेषणीयालामे बहून्यपि |दिनान्युपोषित एवास्तेऽत आहारप्रत्याख्यानमाह-'आहारप्रत्याख्यानेन' अनेषणीयभक्तपाननिराकरणरूपेण जीवितेप्राणधारणरूपे आशंसा-अभिलाषो जीविताशंसा तस्याः प्रयोगो-व्यापारणं करणं जीविताशंसाप्रयोगस्तं व्यवच्छि| नत्ति, आहाराधीनं हि मनुजानां जीवितमतस्तत्प्रत्याख्याने तदाशंसासु व्यवच्छेदो भवति, पठन्ति च-'जीवियास
विप्पओगं वोच्छिदिय'त्ति, तत्र जीविताशया विप्रयोगो-विविधव्यापारस्तं व्यवच्छिनत्ति, जीविताशया ह्याहार एव * मुख्यो व्यापारस्ततस्तत्प्रत्याख्याने शेषव्यापारव्यवच्छेदः सुकर एव भवतीति. ततश्च जीविताशंसाप्रयोगं जीविताशाविप्रयोग वा विच्छिद्य जीवः 'आहारम्' अशनादिकम् 'अन्तरेण' विना न संक्लिश्यति, कोऽर्थः?-विकृष्टतपोऽनुष्ठानवानपि न बाधामनुभवति ३५ । एतच प्रत्याख्यानत्रयमपि कषायाभाव एव फलवदिति तत्प्रत्याख्यानमुच्यतेकपायप्रत्याख्यानेन-क्रोधादिविनिवारणेन वीतो-विगतो रागो द्वेषविगमाविनाभावित्वात्तद्विगमस्स द्वेषश्चास्येति १ तस्य भिक्षो वं भवति-परिजीण मे वस्त्रं सूचि याचयिष्यामि संधास्ये उत्कर्षयिष्यामि तूणयिष्याभि (व्येष्यामि) व्युत्कर्षयिष्यामि
॥५८८॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org