________________
उत्तराध्य.
बृहद्वृत्तिः
॥५८६ ॥
ख्यशुक्लध्यानवर्त्ती भूत्वा 'ततः पश्चात् ' तदनन्तरं 'सिध्यति' निष्ठितार्थो भवति 'बुध्यते'' ज्ञानदर्शनोपयोगाभ्या च वस्तुतत्त्वमवगच्छति, न तु नवात्मगुणात्यन्तोच्छेदात्मकमुक्तिवादिनामिवाबुद्धिमान् भवति, मुच्यते संसारान्न तु | 'दग्धेन्धनः पुनरुपैति भव' मित्यादिवादिपरिकल्पितमुक्तवत्पुनरिहागमनवान् अत एव परिनिर्वातीत्यादि प्राग्वत्, आह- अनन्तरं तपसो व्यवदानं फलमुक्तं, तच मुक्त्याख्यफलोपलक्षकमित्यतिदेशेनोक्तमिति किं पुनस्तत्फलत्वेन साक्षादस्याभिधानम् ?, उच्यते, सूत्रकृतां वैचित्र्यख्यापनार्थ, ते हि परार्थोद्यतचेतसः परेषां प्रज्ञाप्रकर्षापकर्षावपेक्ष्य | क्वचित्साक्षादभिधानोचितानप्यर्थानस्पष्टतया निर्दिष्टवन्तः क्वचित्तु गम्यानपि च साक्षादन्यत्र तूभयथेति २८ ॥ व्यवदानं च सत्खपि संयमादिषु सुखशायितायामेव भवतीति तामेवाह, तत्र च सुखं शेते, कोऽभिप्रायः ? - प्रवचनशङ्कादीनां परलाभकामभोग शरीरसंबाधना दिमदनस्पृहादीनां च क्रमेणाभावरूपासु चतसृषु सुखशय्यासु | स्थितत्वेन मनोविधाताभावान्निराकुलतयाऽऽस्त इति सुखशायि तस्य भावः सुखशायिता, प्राकृतत्वात्सूत्रे यलोपः, तयाऽनुत्सुकत्वं कोऽर्थः ? - परलाभ दिव्यमानुषकामभोगेषु सर्वदा निःस्पृहत्वं, यदिवा 'सुहसाया 'त्ति प्राकृतत्वात्सुखं-वैषयिकं शातयति - तद्गमनस्पृहानिवारणेनापनयतीति सुखशातस्तस्य भावः सुखशातता तया, पठन्ति च - 'सुहसाएणं ति, तत्र च सुखशायः - सुखेन शयनं तेन, यदिवा सुखशातः - सुखस्य शातनं तेन जीवः 'अनुत्सुकत्वं' विषयसुखं प्रति निःस्पृहत्वं 'जनयति' उत्पादयति, संयमादिष्वेव निष्पन्नमानसत्वात्, अनुत्सुकश्च जीवोऽनु
Jain Education International
For Personal & Private Use Only
सम्यक्त्व.
पराक्रमा.
२९
।।५८६ ॥
www.jainelibrary.org