SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ RECACANCIASGACASGANG सह कम्पत इत्यनुकम्पकः, सुखोत्सुको हि म्रियमाणमपि प्राणिनमवलोकयन् खसुखरसिक एवासीत् अयं तु तद्विपरीत इति दुःखेन कम्पमानमवलोक्य तहुःखदुःखितया खयमपि तत्काल एव कम्पत इति, तथा 'अनुद्भटः' अनुल्वणः 'विगतशोकः' नैहिकार्थभ्रंशेऽपि शोचते. मुक्तिपदबद्धस्पृहत्वात् , एवंविधश्च प्रकृष्टशुभाध्यवसायतश्चारित्रमोहनीयं कर्म क्षपयति २९ । सुखशय्यास्थितस्य चाप्रतिबद्धता भवतीति तामभिधातुमाह-'अप्रतिवद्धतया' मनसि |निरभिष्वङ्गतया 'निःसङ्गत्वं' बहिःसङ्गाभावं जनयति, निःसङ्गत्वेन जीव एको रागादिविकलतया तत एव 'एकाट्राग्रचित्तः' धर्मकतानमना एकाग्रताविबन्धकहेत्वभावात् , ततश्च दिवा वा रात्री वाऽसजन्, कोऽर्थः ?-सदा बहिः सङ्गं त्यजन्नप्रतिबद्धश्चापि विहरति, कोऽभिप्रायः ?-विशेषतः प्रतिबन्धविकलो मासकल्पादिनोद्यतविहारेण पर्यटिति ३० । अप्रतिबद्धता च विविक्तशयनासनतायां संभवत्यतस्तामाह-विविक्तानि-रुयाद्यसंसक्तानि शयनासनान्यु|पलक्षणत्वादुपाश्रयश्च यस्यासी विविक्तशयनासनस्तद्भावस्तत्ता तया 'चारित्रगुर्ति' चरणरक्षां जनयति 'चरित्तगुतेत्ति प्राग्वद , गुप्तचरित्रश्च जीवो विविक्तो-विकृत्यादिरहित आहारो यस्य स तथा, गुप्तचारित्रो हि सर्वत्र निःस्पृह एव भवति, तथा दृढं-निश्चलं चरित्रमस्येति दृढचरित्रस्तत एवैकान्तेन-निश्चयेन रतः-अभिरतिमानेकान्तरतः संयम इति गम्यते, तथा मोक्षे-मुक्तौ भावन-अन्तःकरणेन प्रतिपन्न-आश्रितः मोक्षभावप्रतिपन्नः मोक्ष एव मया साधयितव्य इत्यभिप्रायवान् अष्टविधर्मग्रन्थिरिव ग्रन्थि दतयाऽष्टविधकर्मग्रन्थिस्तं 'निर्ज Join Education Interational For Personal & Private Use Only www.iainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy