________________
भद्रं कल्याणं यस्मिंस्तथा तस्य भावस्तत्ता तया, यदिवाऽऽगमिष्यतीत्यागमः - आगामी कालस्तस्मिन् शश्वद्रतया-अन| वरतकल्याणतयोपलक्षितं कर्म निवभाति, शुभानुबन्धि शुभमुपार्जयतीति भावः २३ । इत्थं च पञ्चविधखाध्यायर| तेन श्रुतमाराधितं भवतीति तदाराधनोच्यते श्रुतस्य 'आराधनया' सम्यगासेवनया 'अज्ञानम्' अनवबोधं 'क्षप यति' अपनयति, विशिष्टतत्त्वावबोधावाप्तेः, 'न च संक्लिश्यते नैव रागादिजनितसंक्लेशभाग् भवति, तद्वशतो नवनवसंवेगावाप्तेः, उक्तं हि - "जह जह सुयमो (मव ) गाहइ अइसयरसपसर संजयमपुवं । तह तह पल्हाइ मुणी णव - नवसंवेगसद्धाए ॥ १ ॥ "त्ति २४ । श्रुताराधना चैकाग्रमनः संनिवेशनात एव भवत्यतस्तामाह - एकमयं - प्रस्तावाच्छुभमालम्बनमस्येत्येकाग्रं तच्च तन्मनश्च तस्य संनिवेशना - स्थापना, एकाग्रे वा मनः संनिवेशना तया चित्तस्येत - स्तत उन्मार्गप्रस्थितस्य निरोधो - नियन्त्रणा चित्तनिरोधस्तं करोति २५ । एवंविधस्यापि संयमादेवेष्टफलावाप्तिरिति । तमाह - 'संयमेन' पञ्चाश्रवविरमणादिना 'अणण्हयत्तं' ति 'अनंहस्कत्वम्' अविद्यमानकर्मत्वं जनयति, आश्रवविरमणात्मकत्वादस्य २६ । संयमवतोऽपि न तपो विना कर्मक्षय इति तदाह - 'तपसा' वक्ष्यमाणेन 'वोदाणं' ति 'व्यवदानं' पूर्वबद्धकर्मापगमतो विशिष्टां शुद्धिं जनयति २७ । इत्थं व्यवदानस्य तपोऽनन्तर फलत्वात्तस्य तदाह-व्यवदानेन 'अक्रियम्' अविद्यमानक्रियं, कोऽर्थः - व्युपरतक्रियाख्यं शुक्लध्यानचतुर्थ भेदं जनयति, 'अक्रियाकः' व्युपरतक्रिया१ यथा यथा श्रुतमवगाहते अतिशय रसप्रसरसंयुतमपूर्वम् । तथा तथा प्रह्लादयति मुनिर्नवनवसंवेगश्रद्धया ॥ १ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org