________________
सम्यक्त्व
पराक्रमा.
उत्तराध्य. बृहद्वृत्तिः ॥५८५॥
मेव बन्धसम्भवात् , उक्तं हि-"सिय तिभागे सिय तिभागतिभागे” इत्यादि, ततस्तस्य कादाचित्कत्वेन विवक्षि- तत्वात्तद्वतश्च कस्यचिन्मुक्तिप्राप्तस्तद्वन्धानभिधानमिति भावः, अपरं च 'असातवेदनीयं' शारीरादिदुःखहेतुं कर्म चशब्दादन्याश्चाशुभप्रकृतीः 'नो' नैव भूयोभूयः 'उपचिनोति' बधाति, भूयोभूयोग्रहणं त्वन्यतमप्रमादतः प्रमत्तसंयतगुणस्थानवर्तितायां तद्वन्धस्यापि सम्भवात् , अन्ये त्वेवं पठन्ति-'सायावेयणिजं च णं कम्मं भुजो भुजो उवचिणाति' इह च शुभप्रकृतिसमुच्चयार्थश्चशब्दः, शेषं स्पष्टम् , 'अनादिकम्' आदेरसम्भवात् , 'चः' समुच्चयार्थो योक्ष्यते 'अणवयग्गन्ति अनवदत्-अनपगच्छत् 'अग्रं' परिमाणं यस्य सदाऽवस्थितानन्तपरिमाणत्वेन सोऽयमनव|दग्रोऽनन्त इत्यर्थस्तं, प्रवाहापेक्षं चैतत् , अत एव 'दीहमति मकारोऽलाक्षणिकः दीर्घाद्धं' दीर्घकालं दी? वाऽध्या-तत्परिभ्रमणहेतुः कर्मरूपो मार्गो यस्मिंस्तत्तथा,चत्वारः-चतुर्गतिलक्षणा अन्ताः-अवयवा यस्मिंस्तचतुरन्तं संसारकान्तारं क्षिप्रमेव-शीघ्रमेव 'वीतीवयति'त्ति 'व्यतिब्रजति' विशेषेणातिकामति, किमुक्तं भवति ?-मुक्तिमवाप्नोति २२ । एवमभ्यस्तश्रुतेन च धर्मकथाऽपि विधेयेति तामाह-'धर्मकथया' व्याख्यानरूपया निर्जरां जनयति, पाठान्तरतश्च प्रवचनं 'प्रभावयति' प्रकाशयति, उक्तं च-"पावयणी धम्मकही वादीणेमित्तिओ तवस्सी य। विज्जा सिद्धो य कवी अट्टेव पभावगा भणिया ॥१॥" 'आगमिसस्सभहत्ताए'ति सूत्रत्वादागमिष्यदिति-आगामिकालभावि
१ स्यात्रिभागे स्यात्रिभागत्रिभागे २ प्रावचनी धर्मकथिको वादी नैमित्तिकस्तपस्वी च । विद्या सिद्धश्च कविरप्दैव प्रभावका भणिताः ॥११॥
॥५८५॥
www.jainelibrary.org
For Personal & Private Use Only
dain Education International