________________
तयाऽऽयुष्कवर्जाः सप्त कर्मप्रकृती: 'धणियं'ति वाढं बन्धनं-श्लेषणं तेन बद्धा निकाचिता इत्यर्थः 'शिथिलबन्धनबद्धाः किञ्चिन्मुत्कलाः कोऽर्थः ? - अपवर्त्तनादिकरणयोग्याः प्रकरोति, तपोरूपत्वादस्याः, तपसश्च निकाचि - तकर्मक्षपणेऽपि क्षमत्वात् उक्तं हि - "तवसा उ निकाइयाणंपि"त्ति, दीर्घकालस्थितिका हखकालस्थितिकाः प्रकरोतीति, शुभाध्यवसायवशात्स्थि तिख (क)ण्डकापहारेणेति भावः, एतचैवं, सर्वकर्मणामपि स्थितेरशुभत्वात् यत उक्तम्- "संवासिंपि ठितीओ सुभासुभापि होंति असुभाओ । माणुसतिरिच्छदेवाउयं च मोत्तूण सेसाणं ॥ १ ॥ " तीत्रानुभावाश्चतुःस्थानिकरसत्वेन मन्दानुभावाः त्रिस्थानिकरसत्वाद्यापादनेन प्रकरोति, इह चाशुभप्रकृतय एव गृह्यन्ते, शुभभावस्य शुभाशुभतीत्रा (त्रमन्दानुभावहेतुत्वात् उक्तं हि - "सुभपयडीण विसोही [ ए ]तिवमसुभाण संकिलेसेणं । अन्नं हिऽविसोहीए "त्ति, शुभभावेन तीत्रमित्यनुभागं बनातीति प्रक्रमः, कचिदिदमपि दृश्यते - "बहु|पएसग्गाओ अप्पपएसग्गातो करेति" ननु केनाभिप्रायेणायुष्कवर्जाः सप्तेत्यभिधानं ?, शुभायुष एवं संयतस्य सम्भवात्, तस्यैव चानुप्रेक्षा तात्त्विकी, न च शुभभावेन शुभप्रकृतीनां शिथिलतादिकरणं, संक्लेशहेतुकत्वात्तस्य, आहशुभायुर्वन्धोऽप्यस्याः किं न फलमुक्तम् ?, उच्यते, आयुष्कं च कर्म स्याद्वभाति, तस्य त्रिभागादिशेषायुष्कताया
१ तपसा तु निकाचितानामपि २ सर्वासामपि स्थितयः शुभाशुभानामपि भवन्त्यशुभाः । मनुष्यतिर्यग्देवायूंषि च मुक्त्वा शेषाणाम् ॥ १॥ ३ शुभप्रकृतीनां विशुद्ध्या तीव्रमशुभानां संक्केशेन । अन्यं हि अविशुद्ध्या । ४ बहुप्रदेशामा अल्पप्रदेशामाः करोति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org