________________
उत्तराध्य.
सम्यक्त्व
पराक्रमा.
बृहद्धत्तिः
२९
॥५८४॥
नमनुवर्त्तनं तत्र वर्तते, कोऽर्थः ?-अव्यवच्छेदं करोति, ततः श्रुतस्यानाशातनायामनुषजने वा वर्तमानः तीर्थमिह गणधरस्तस्य धर्म:-आचारः श्रुतधर्मप्रदानलक्षणस्तीर्थधर्मः यदिवा तीर्थ-प्रवचनं श्रुतमित्यर्थस्तद्धर्मः-खाध्यायस्तमवलम्बमानः-आश्रयन् महती बहुतरकर्मविषयत्वान्निर्जराऽस्येति महानिर्जरो महत्-महाप्रमाणपर्यवसितत्वेन प्रशस्यं वा मुक्त्यवाप्त्या पर्यवसानम्-अन्तः कर्मणो भवस्य वा यस्य, चस्य गम्यमानत्वान्महापर्यवसानश्च भवति; मुक्तिभाग् भवतीति हृदयम् १९ । गृहीतवाचनेनापि संशयाधुत्पत्तौ मुदा प्रष्टव्यमिति प्रतिप्रच्छनावसर इति तामाह-तत्र प्रथमं कथितस्य सूत्रादेः पुनः प्रच्छन्नं प्रतिप्रच्छन्नं तेन सूत्रार्थतदुभयानि विशोधयति, संशयादिमालिन्यापनयनेन विशुद्धानि कुरुते, तथा काङ्क्षा-इदमित्थमित्थं च ममाध्येतुमुचितमित्यादिका वान्छा सैव मोहदायति 'अन्यत्रापी'ति वचनादनीयरि काङ्खामोहनीयं कर्म अनभिग्रहिकमिथ्यात्वरूपं 'व्युच्छिनत्ति' विशेषेणाप
नयति २० । इत्थं विशोधितस्यापि सूत्रस्य मा भूद्विस्मरणमिति परावर्तनाऽवसरः, तत्र च 'परियट्टणाए'त्ति सूत्रत्वात्परावर्तना-गुणनं तया व्यज्यते एभिरर्थ इति व्यञ्जनानि-अक्षराणि 'जनयति' उत्पादयति, तानि हि विग|लितान्यपि गुणयतो झगित्युत्पतन्तीत्युत्पादितान्युच्यन्ते, तथा तथाविधकर्मक्षयोपशमतो व्यञ्जनलब्धि, चशब्दाद् व्यञ्जनसमुदायात्मकत्वाद्वा पदस्य तल्लब्धि च पदानुसारितालक्षणामुत्पादयति २१। सूत्रवदर्थेऽपि संभवति विस्मरणमतः सोऽपि परिभावनीय इत्यनुप्रेक्षा प्रस्तावात्सूत्रानुप्रेक्षा-चिन्तनिका तया प्रकृष्टशुभभावोत्पत्तिनिवन्धन
॥५८४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org