SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ न्तरं क्षमितव्यमिदं मयेत्यादिरूपा तया 'पल्हाएणंतभावं जणय 'त्ति प्रह्रादेन - आत्मनो मनःप्रसत्यात्मकेनान्तर्भा(भा) वं- विनाशं प्रक्रमादनुशयस्य तज्जनितचित्तसंक्लेशस्य च ' जनयति' उत्पादयति प्रहादेनान्तर्भावमुपगतश्च, पठन्ति च - 'पल्हायणभावं जणयति, पल्हायणभावमुवगए यत्ति, इह च प्रह्लादनभावः - चित्तप्रसत्तिरूपोऽभिप्रायः सर्वे च ते प्राणाचेह द्वित्रिचतुरिन्द्रिया भूताश्च - तरवो जीवाश्च पञ्चेन्द्रियाः सत्त्वाश्च - शेषजन्तवः सर्व - प्राणभूतजीवसत्त्वाः, उक्तं हि - " प्राणा द्वित्रिचतुष्प्रोक्ता, भूताश्च तरवः स्मृताः । जीवाः पञ्चेन्द्रिया ज्ञेयाः, शेषाः सत्त्वा इतीरिताः ॥ १ ॥" 'मिश्रीभाव' परहितचिन्तालक्षणमुत्पादयति, ततो मैत्रीभावमुपगतश्चापि जीवः | 'भावविशुद्धिं रागद्वेषविगमरूपां कृत्वा 'निर्भय' इहलोकादिभयविकलो भवति, अशेषभयहेत्वभावादिति | भावः १७ । एवंविधगुणावस्थितेन खाध्याये यतितव्यमिति तमाह - खाध्यायेन ज्ञानावरणीयमुपलक्षणत्वात् शेषं च कर्म क्षपयति, यत आह – “कम्ममसंखेजभवं खवेइ अणुसमयमेव आउत्तो । अन्नयरम्मिवि जोए सज्झायंमि य विसेसेणं ॥ १॥" १८ । अत्र च प्रथमं वाचनैव विधेयेति तामाह — वक्ति शिष्यस्तं प्रति गुराः प्रयोजकभावो वाचना पाठनमित्यर्थस्तया 'निर्जरां' कर्मपरिशाटनं जनयति, तथा 'श्रुतस्य' आगमस्य चस्य भिन्नक्रमत्वादनाशातनायां च | वर्त्तते, तदकरणे ह्यवज्ञातः श्रुतमाशातितं भवेत् न तु तत्करण इति, पठन्ति च - 'अणुसजणाए बट्टई ' तत्रानुषङ्ग (ञ्ज)१ कर्मासंख्येयभविकं क्षपयति अनुसमयमेवाऽऽयुक्तः । अन्यतरस्मिन् योगेऽपि स्वाध्याये च विशेषेण ॥ १ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy