________________
प्रकियटी ३॥" तदन्यस्त्वल्पकर्मा विरतिमवाप्य तथाविधविशुद्धाध्यवसायवशात्तथाविधतपस्तथाविधवेदना च लब्ध्वा
झगित्येव मुक्तिमधिगच्छति, यथा मरुदेवीखामिनी, तथा च तत्रैवोक्तम्-"अहावरे चउत्थे अंतकिरियावत्थू अप्पकम्मे पञ्चायाते यावि भवति, समणाउसो! से णं मुंडे भवित्ता अगाराओ अणगारियं पचतिए उवहिए णेयाउयस्स मग्गस्स संजमबहुले जाव सबदुक्खंखवे तवस्सी, तस्स णं तहप्पगारे तवे भवति तहप्पगारा चेव वेयणा भवति, से णं तहप्पगारे पुरिसजाए णिरुद्धेणं परियाएणं सिज्झइ जाव सबदुक्खाणं अंतं करेति, जहा से मरुदेवी भगवतित्ति" पठन्ति च | 'अणंतकिरियं आराहणं आराहेति'त्ति” अत्र चाविद्यमानाऽन्तक्रिया-कर्मक्षयलक्षणा तद्भव एव यस्यां साऽनन्तक्रिया तां परम्परामुक्तिफलामित्यर्थः १४ । अहंद्वन्दनानन्तरं खाध्यायो विधेयः, स च काल एव, तत्परिज्ञानं च कालप्रत्युपेक्षणापूर्वकमिति तामाह-कालः-प्रादोषिकादिस्तस्य प्रत्युपेक्षणा-आगमविधिना यथावन्निरूपणा ग्रहणप्रतिजागरणरूपा कालप्रत्युपेक्षणा तया, ज्ञानावरणीयं कर्म क्षपयति, यथावत्प्रवृत्त्या तथाविधशुभभावसम्भवेनेति | | १ अथापरं चतुर्थमन्तक्रियावस्तु अल्पकर्मा प्रत्यायातश्चापि भवति, श्रमणायुष्मन् ! स मुण्डो भूत्वाऽगारात् अनगारितां प्रवजितः, उपस्थितो नैयायिकाय मार्गाय संयमबहुलो यावत्सर्वदुःखक्षपकस्तपस्वी, तस्य तथाप्रकारं तपो भवति तथाप्रकारैव वेदना भवति, स तथाप्रकारः पुरुषजातो निरुद्धेन पर्यायेण सिध्यति यावत् सर्वदुःखानामन्तं करोति यथा सा मरुदेवी भगवतीति
dain Education International
For Personal & Private Use Only
www.janelibrary.org