________________
त्याह- पिहितत्रतच्छिद्रः पुनर्जीवः 'निरुद्धाश्रवः' सर्वथा हिंसाद्याश्रवाणां निरुद्धत्वात्, अत एवासवलं - सबलस्थानैरकबुरीकृतं चरित्रं यस्य स तथा, 'अष्टसु प्रवचनमातृषु' उक्तरूपासु 'उपयुक्तः' अवधानवान् तत एवाविद्यमानं पृथक्त्वंप्रस्तावात्संयमोद्योगेभ्यो वियुक्तखरूपं यस्यासौ अपृथक्त्वः - सदा संयमयोगवान्, (अ) प्रमत्तो वा पाठान्तरात् तथा 'सुप्रणिहितः' सुष्ठु संयमे प्रणिधानवान्, पाठान्तरतो वा सुष्ठु प्रणिहितानि - असन्मार्गात् प्रच्याव्य सन्मार्गे | व्यवस्थापितानीन्द्रियाण्यनेनेति सुप्रणिहितेन्द्रियः 'विहरति ' संयमाध्वनि याति ११ । अत्र चातीचारशुद्धिनिमित्तं कायोत्सर्गः कर्त्तव्य इति तमाह- कायः - शरीरं तस्योत्सर्गः - आगमोक्तनीत्या परित्यागः कायोत्सर्गस्तेन, अतीतं चेह | चिरकालभावित्वेन प्रत्युत्पन्नमिव प्रत्युत्पन्नं चासन्नकालभावितयाऽतीतप्रत्युत्पन्नं 'प्रायश्चित्तम्' उपचारात्प्रायश्चित्ता|हमतीचारं 'विशोधयति' तदुपार्जितपापापनयतोऽपनयति, विशुद्धप्रायश्चित्तश्च जीवो निर्वृत्तं स्वस्थीभूतं हृदयम्अन्तःकरणमस्येति निर्वृत्तहृदयः, क इव ? - 'ओहरिय'त्ति अपहृतः - अपसारितो भर इति- भारो यस्मात्स तथा | इवेति भिन्नक्रमः, ततो भारं वहतीति मूलविभुजादेराकृतिगणत्वात्कप्रत्यये भारवहो- वाहीकादिः स इव, भारप्राया |ातीचारास्ततस्तदपनयनेऽपहृतभर भारवाह इव निर्वृत्तहृदयो भवतीति भावार्थः, स च ध्यानं - धर्माद्युपगतः - प्राप्तो ध्यानोपगतः पाठान्तरतः प्रशस्तध्यानध्यायी 'सुखंसुखेन' सुखपरम्परावास्या 'विहरति' इहपरलोकयोरवतिष्ठते, इहैव जीवन् मुक्तत्यवाप्तेरिति भावः १२ । एवमप्यशुद्ध्यमाने प्रत्याख्यानं विधेयमिति तदाह - 'प्रत्याख्या -
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org