SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व बृहद्वृत्तिः पराक्रमा. उत्तराध्य. नेन' मूलगुणोत्तरगुणप्रत्याख्यानरूपेणाश्रवद्वाराणि निरुणद्धि, तन्निरोधहेतुत्वात्तस्य, उपलक्षणं चैतत् , पुरोपचितकर्म दक्षये मुक्त्यङ्गत्वेनास्यान्यत्रोक्तत्वात् , तथा चाह-"पचक्खाणमिणं सेविऊण भावेण जिणवरुद्दिटं। पत्ताऽणंता जीवा सासयसोक्खं लहुं मोक्खं ॥१॥” १३ । अत्र चोत्तरगुणप्रत्याख्यानान्तर्भूतं नमस्कारसहितादि, तद्रहणानन्तरं च ॥५८१॥ यत्र सन्निहितानि चैत्यानि(तत्र)तद्वन्दनं विधेयमित्युक्तं प्राक्, तच न स्तुतिस्तवमङ्गलं विनेति तदाह-तत्र स्तवादेवेन्द्रस्तवादयः स्तुतय-एकादिसप्तश्लोकान्ताः, यत उक्तम्-"एगदुगतिसिलोगा [थुइओ] अन्नेसिं जाव हुंति सत्तेव । देविंदत्थवमाई तेण परं धुत्तया होंति ॥१॥"त्ति, ततश्च स्तुतयश्च स्तवाश्च स्तुतिस्तवाः, स्तुतिशब्दस्य क्त्यन्तत्वात्पूनिपातः, सूत्रे तु प्राकृतत्वाद्यत्ययनिर्देशः, स्तुतिस्तवा एव मङ्गलं-भावमङ्गलरूपं स्तुतिस्तवमङ्गलं तेन ज्ञानदर्शन चारित्रात्मिका बोधिनिदर्शनचारित्रबोधिस्तस्य लाभो ज्ञानदर्शनचारित्रबोधिलाभः, परिपूर्णजिनधर्मावाप्तिरित्यर्थः, छातं जनयति, उक्तञ्च-"भत्तीए जिणवराणं परमाए खीणपिजदोसाणं । आरोगबोहिलाभं समाहिमरणं च पाति ६॥१॥" ज्ञानदर्शनचारित्रलाभबोधिसंपन्नश्च जीवोऽन्तः-पर्यन्तो भवस्य कर्मणां वा तस्य क्रिया-अभिनिवर्तनमन्तक्रिया, मुक्तिरित्यर्थः, ततश्चान्तक्रियाहेतुत्वादन्तक्रिया ताम् , अन्तक्रियाहेतुत्वं च तद्भवेऽपि स्यादत आह १ प्रत्याख्यानमिदं सेवित्वा भावेन जिनवरोद्दिष्टम् । प्राप्ता अनन्ता जीवाः शाश्वतसौख्यं लघु मोक्षम् ॥ १॥ २ एकद्वित्रिश्लोकाः स्तुतयोऽन्येषां यावद्भवन्ति सप्तैव । देवेन्द्रस्तवाद्यास्ततः परं स्तवा भवन्ति ॥ १॥ ३ भक्त्या जिनवराणां परमया क्षीणप्रेमद्वेषाणाम् ।। आरोग्यबोधिलाभं समाधिमरणं च प्राप्नुवन्ति ॥ १॥ ॥५८१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy