SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ||૧૮) पेण सहावद्येन वर्त्तन्त इति सावद्याः - कर्मबन्धहेतवो योगा - व्यापारास्तेभ्यो विरतिः - उपरमः सावद्ययोगविरतिस्तां जनयति, तद्विरतिसहितस्यैव सामायिकसम्भवात् न चैवं तुल्यकालत्वेनानयोः कार्यकारणभावासम्भव इति वाच्यं, केपुचित्तुल्यकालेष्वपि वृक्षच्छायादिवत्कार्यकारणभावदर्शनाद् एवं सर्वत्र भावनीयम् ८ । सामायिकं च प्रतिपत्तुकामेन तत्प्रणेतारः स्तोतव्याः, ते च तत्त्वतस्तीर्थकृत एवेति तत्सूत्रमाह - 'चतुर्विंशतिस्तवेन' एतदवसर्पिणी| प्रभवतीर्थकृदुत्कीर्त्तनात्मकेन दर्शनं - सम्यक्त्वं तस्य विशुद्धिः - तदुपघातिकर्मापगमतो निर्मलीभवनं दर्शनविशुद्धिस्तां | जनयति ९ । स्तुत्वाऽपि तीर्थकरान् गुरुवन्दनपूर्विकैव तत्प्रतिपत्तिरिति तदाह - 'वन्दनकेन' आचार्याद्युचितप्रतिप|त्तिरूपेण 'नीचैर्गोत्रम्' अधमकुलोत्पत्तिनिबन्धनं कर्म क्षपयति, 'उच्चैर्गोत्रं' तद्विपरीतरूपं निवन्नाति, 'सौभाग्यं च' सर्वजन स्पृहणीयतारूपम् 'अप्रतिहतं' सर्वत्राप्रतिस्खलितमत एवाज्ञा - जनेन यथोदितवचनप्रतिपत्तिरूपा फलं 'निर्वर्त्तयति' जनयति, तद्वतो हि प्राय आदेयकर्मणोऽप्युदयसम्भवादादेयवाक्यताऽपि संभवतीति, 'दक्षिणभावं च' अनुकूलभावं जनयति लोकस्येति गम्यते, तम्माहात्म्यतोऽपि सर्वः सर्वावस्थास्वनुकूल एव भवति १० । एतद्गुणस्थितेनापि मध्यमतीर्थकृतां तीर्थेषु स्खलितसम्भवे पूर्वपश्चिमयोस्तु तदभावेऽपि प्रतिक्रमितव्यमिति प्रति - क्रमणमाह - 'प्रतिक्रमणेन' अपराधेभ्यः प्रतीपनिवर्त्तनात्मकेन व्रतानां प्राणातिपातनिवृत्त्यादीनां छिद्राणिअतिचाररूपाणि विवराणि प्रतच्छिद्राणि 'पिदधाति' स्थगयति अपनयतीतियावत्, तथाविधश्व कं गुणमवाशोती Jain Education International For Personal & Private Use Only सम्यक्त्व पराक्रमा. २९ ॥५८०॥ www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy