________________
| उपलक्षणत्वात्स्थितिघातरसघातगुणसङ्क्रमबन्धाश्च विशिष्टाः, अथवा करणगुणेन - अपूर्वकरणादिमाहात्म्येन श्रेणिः | करणगुणश्रेणिः प्रक्रमात्क्षपकश्रेणिरेव गृह्यते, यद्वा करणं-पिण्डविशुद्ध्यादि तदुपलक्षितगुणाना ज्ञानादीना श्रेणि| उत्तरोत्तरगुणपरम्पराखरूपा तां प्रतिपद्यते 'करणगुणसेढी पडिवण्णे यत्ति प्राग्वत्प्रतिपन्न करणगुणश्रेणिकश्चानगारः । 'मोहनीयं' दर्शनमोहनीयादि कर्म 'उद्घातयति' क्षपयति, तत्क्षपणे च मुक्तिप्राप्तिरित्यर्थत उक्तैव भवति ६ । कश्चिदात्मनोऽत्यन्तदुष्टतां परिभावयन् न निन्दामात्रेण तिष्ठेत् किन्तु गमपि कुर्यादिति तामाह-' गरिहणयाए' ति गर्हणेन - परसमक्षमात्मनो दोषोद्भावनेनं 'अपुरकारं 'ति पुरस्करणं पुरस्कारो - गुणवानयमिति गौरवाध्यारोपो न तथाऽपुरस्कारः — अवज्ञास्पदत्वं तं जनयत्यात्मन इति गम्यते, तथा चापुरस्कारं गतः - प्राप्तः अपुरस्कारगतः - सर्वत्रावज्ञास्पदीभूतो जीवः कदाचित्कदध्यवसायोत्पत्तावपि तद्भीतित एव 'अप्रशस्तेभ्यः' कर्मबन्धहेतुभ्यो योगेभ्यः 'निवर्त्तते' तान् न प्रतिपद्यते, प्रशस्तयोगांस्तु प्रतिपद्यत इति गम्यते, 'पसत्थजोगपडिवन्ने यत्ति प्रतिपन्नप्रशस्त - | योगोऽनगारोऽनन्तविषयतयाऽनन्ते ज्ञानदर्शने हन्तुं शीलं येषां तेऽनन्तघातिनस्तान् ' पर्यवान्' प्रस्तावात् ज्ञानाव| रणादिकर्मणस्तद्वातित्वलक्षणान् परिणतिविशेषान् 'क्षपयति' क्षयं नयति, पर्यवाभिधानं च तद्रूपतयैव द्रव्यस्य विनाश इति ख्यापनार्थम्, उपलक्षणं चैतन्मुक्तिप्राप्तेः, तदर्थत्वात्सर्वप्रयासस्य, एवमनुक्ताऽपि सर्वत्र मुक्तिप्राप्तिरेव | फलत्वेन द्रष्टव्या ७ । आलोचनादीनि च सामायिकवल एव तत्त्वतो भवन्तीति तदुच्यते-- 'सामायिकेन' उक्तरू
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org