SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वपराकमा. उत्तराध्य. ६ यथा हि तोमरादिशल्यानि तत्कालदुःखदानेऽप्यायतौ दुःखदायीनि एवं मायादीन्यपीत्येवमुच्यते तेषां मोक्षविघ्नानां बृहद्वृत्तिः है पापानुबन्धकर्मबन्धनिबन्धनत्वेन मुत्तयन्तरायाणां, तथाऽनन्तसंसारं वर्द्धयन्ति-वृद्धिं नयन्तीत्यनन्तसंसारवर्द्धनानि तेषाम् 'उद्धरणम्' अपनयनं करोति, तदुद्धरणतश्च 'ऋजुभावं च' आर्जवं जनयति 'उज्जुभावपडिवण्णे य'त्ति प्रति॥५७९॥ पन्नर्जुभावश्च जीवः 'अमायी' मायारहितस्ततः पुंस्त्वनिवन्धनत्वादमायित्वस्य 'इत्थिवेय'त्ति प्राग्वद्विन्दुलोपे स्त्रीवेदं| नपुंसकवेदं च न बध्नाति, पूर्वबद्धं च तदेव द्वयं यद्वा सकलमपि कर्म 'निर्जरयति'क्षपयति, तथा च मुक्तिपदमाप्नोतीत्यभिप्रायः, उक्तं हि-"उँद्धियदंडो साहू अचिरेण उवेइ सासयं ठाणं । सोवि अणुद्धियदंडो संसारपवढओ होति S॥१॥" त्ति ५। आलोचना च दुष्कृतनिन्दावत एव सफला भवतीति तामाह-णिंदणयाए'त्ति, आषत्वान्निन्दनम् आत्मनैवात्मदोषपरिभावनं तेन ‘पश्चादनुतापं' हा ! दुष्टमनुष्ठितमिदं मयेत्यादिरूपं जनयति, ततः पश्चादनुतापेन 'विरज्यमानः' वैराग्यं गच्छन् करणेन-अपूर्वकरणेन गुणहेतुका श्रेणिः करणगुणश्रेणिः सर्वोपरितनस्थितेर्मोहनीयादिकर्मदलिकान्युपादायोदयसमयात्प्रभृति द्वितीयादिसमयेष्वसङ्ख्यातगुणपुद्गलप्रक्षेपरूपाऽऽन्तमौहूर्तिकी, यत उक्तम्"उवरिमठिईइ दलियं हेट्ठिमठाणेसु कुणइ गुणसेढी । गुणसंकमकरणं पुण असुहाओँ सुहमि पक्खिवइ ॥१॥" १ उद्धृतदण्डः साधुरचिरेणैवोपैति शाश्वतं स्थानम् । सोऽपि चानुभूतदण्डः संसारप्रवर्धको भवति ॥१॥२ उपरितनस्थितेदेलिकमधस्तनस्थानेषु करोति गुणश्रेणिः । गुणसंक्रमकरणं पुनरशुभाः शुभे प्रक्षिपति ॥२॥ ALSGAROORSAROKAR ॥५७९|| Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy