________________
क्त्वादिलाभं शातयति-विनाशयतीत्यत्याशातना तस्यां शीलं-तत्करणखभावात्मकमस्येत्यत्याशातनाशीलो न तथाऽनत्याशातनाशीलः, कोऽर्थः ?-गुरुपरिवादादिपरिहारकृत् , एवंविधश्च नैरयिकतिर्यग्योनिकमनुष्यदेवदुर्गतीरिति-नैर-13 |यिकाश्च तिर्यश्चश्च नैरयिकतिर्यञ्चस्तेषां योनिः खार्थिके के नैरयिकतिर्यग्योनिके-प्रतीते 'मनुष्यदेवदुर्गती च' म्लेच्छकिल्बिषिकत्वादिलक्षणे 'निरुणद्धि' निषेधति, तद्धेतोरत्याशातनाया अभावेन तत्रागमनात्, तथा वर्ण:-श्लाघा तेन सज्वलनं-गुणोद्भासनं वर्णसज्वलनं भक्तिः-अअलिप्रग्रहादिका बहुमानम्-आन्तरप्रीतिविशेष एषां द्वन्द्वे भावप्रत्यये |च वर्णसज्वलनभक्तिबहुमानता तया-प्रक्रमाद्गुरूणां विनयप्रतिपत्तिरूपया 'माणुस्सदेवसोग्गइओ'त्ति मानुष्यदेवसु
गतीः विशिष्टकुलेश्वर्येन्द्रत्वाद्युपलक्षिता निबध्नाति तत्प्रायोग्यकर्मबन्धनेनेति भावः, 'सिद्धिसोग्गई'ति सिद्धिसुगति |च विशोधयति, तन्मार्गभूतसम्यग्दर्शनादिविशोधनेन, 'प्रशस्तानि च प्रशंसास्पदानि 'विनयमूलानि' विनयहेतुकानि सवेंकायोणीह श्रुतज्ञानादीनि परत्र च मुक्तिं 'साधयति निष्पादयति, तत्किमेवं खार्थसाधक एवासावित्याहअन्यांश्च बहून् जीवान् ‘विनेता' विनयं ग्राहिता, स्वयं सुस्थितस्योपादेयवचनात् , उक्तं हि-"ठिओ उ ठावए परं"ति, तथा च विनयमूलत्वादशेषश्रेयसां तत्प्रापणेन परार्थसाधकोऽप्यसौ भवत्येवेति भावः । गुरुशुश्रूषां कुर्वतोऽप्यतीचारसम्भवे आलोचनात एव विवक्षितफलप्राप्तिरिति तामाह-आङिति-सकलखदोषाभिव्यात्या लोचना|आत्मदोषाणां गुरुपुरतःप्रकाशनाऽऽलोचना तया माया-शाठ्यं निदानं-ममातस्तपःप्रभृत्यादेरिदं स्यादिति प्रार्थ-||5|| नात्मकं मिथ्यादर्शनं-सांशयिकादि एतानि शल्यानीव शल्यानि ततः कर्मधारये मायानिदानमिथ्यादर्शनशल्यानि,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org