SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥५७८ ॥ | सिद्धिमार्गः - सम्यग्दर्शनादिरिति सिद्धिमार्गप्रतिपन्नश्च भवति २॥ सत्यपि निर्वेदे धर्मश्रद्धैव सकलकल्याण निबन्धनमिति तामाह - 'धर्मश्रद्धया' उक्तरूपया सातं - सातवेदनीयं तज्जनितानि सौख्यानि सातसौख्यानि प्राग्वन्मध्यपदलोपी समा| सस्तेषु वैषयिकसुखेष्वितियावत् 'रज्यमानः' पूर्व रागं कुर्वन् 'विरज्यते' विरक्तिं गच्छति, 'अगारधर्म च' गृहाचारं गार्ह - |स्थ्यमितियावत्, चशब्दश्चेह वाक्यालङ्कारे, 'त्यजति' परिहरति, तदत्यागस्य विषयैकसुखानुरागनिबन्धनत्वात्, ततश्च 'अणगार'त्ति प्राकृतत्वाद् 'अनगारी' यतिः सन् जीवः शारीरमानसानां दुःखानां किंरूपाणामित्याह - 'छेदनभेदन| संयोगादीना' मिति, छेदनं-खड्गादिना द्विधाकरणं भेदनं - कुन्तादिना विदारणम्, आदिशब्दस्येहापि सम्बन्धात्ताडनादयश्च गृह्यन्ते ततश्छेदन भेदनादीनां शारीरदुःखानां संयोगः - प्रस्तावादनिष्टसम्बन्धः, आदिशब्दादिष्टवियोगादिपरिग्रहः, ततश्च संयोगादीनां मानसदुःखानां विशेषेण - पुनरसम्भवलक्षणेनोच्छेदः - अभावो व्युच्छेदस्तं करोति, तन्निबन्धनकर्मोच्छेदेनेति भावः, अत एव 'अव्याबाधम्' उपरतसकलपीडं मौक्तमितियावत्, 'चः' पुनरर्थे | भिन्नक्रमस्ततः सुखं पुनः 'निर्वर्त्तयति' जनयति, पूर्व संवेगफलाभिधानप्रसङ्गेन धर्मश्रद्धायाः फलनिरूपणमिह तु | स्वातड येणेत्यपौनरुक्त्यमिति भावनीयम् ३ ॥ धर्मश्रद्धायां चावश्यं गुरवः शुश्रूषितव्या इति गुरुशुश्रूषणमाह - गुरूणां शुश्रूषणं पर्युपासनं तेन 'विनयप्रतिपत्तिम्' उचित कर्त्तव्यकरणाङ्गीकाररूपां जनयति 'विणयपडिवण्णे य'त्ति प्राग्वत् प्रतिपन्नः - अङ्गीकृतो विनयो येन स तथा 'चः' पुनरर्थे जीवः 'अणच्चासायणासीले त्ति अतीवाऽऽयं - सम्य Jain Education International For Personal & Private Use Only सम्यक्त्व पराक्रमा. २९ ॥ ५७८ ॥ www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy