________________
विशद्धिः-सर्वथा क्षयो मिथ्यात्वविशुद्धिस्तां कृत्वा दर्शनस्य-प्रस्तावात्क्षायिकसम्यक्त्वस्याराधको-निरतिचारपालनाकृद्दर्शनाराधको भवति, तथाऽपि किमित्याह-दर्शनविशुद्ध्या च विशुद्ध्या' अत्यन्तनिर्मलया 'अस्ति' विद्यते 'एगय'त्ति
एककः कश्चित्तथाविधो भवस्तेनैव भवग्रहणेन' जन्मोपादानेन सिधति, किमुक्तं भवति?-यस्मिन्नेव जन्मनि दर्शनस्य है तथाविधा शुद्धिस्तत्रैव मुक्तिं गच्छति, यथा मरुदेवी खामिनी, यस्तु न तेनैव सिद्ध्यति स किमित्याह-शुधा-प्रक्रमाद्दर्शनस्य विशुध्धा 'तचंति तृतीयं पुनर्भवग्रहणम्-अन्यजन्मोपादानात्मकं 'नातिक्रामति' नातिवर्त्तते, अवश्यं तृतीयभवग्रहणे सिद्ध्यतीत्यर्थः, उत्कृष्टदर्शनाराधकापेक्षयैतत् , यत उक्तम्-"उक्कोसदसणे णं भंते! जीवे कइहिं भवग्गहणेहिं सिज्झिज्जा, गोयमा ! उक्कोसेणं तेणेव, ततो मुक्के तइयं णाइक्कमति" १॥ संवेगाचावश्यम्भावी निर्वेद इति तमाह-इतःप्रभृति सर्वत्र सुगमत्वान्न प्रश्नव्याख्या, 'निर्वेदेन' सामान्यतः संसारविषयेण-कंदाऽसौ त्यक्ष्यामीत्येवंरूपेण दिव्यमानुषतरश्चेषु, सूत्रत्वात्कप्रत्ययः, यथासम्भवं देवादिसम्बन्धिषु कामभोगेषूक्तरूपेण निर्वेदं हवमागच्छति यथा-अलमेतैरनर्थहेतुभिरिति, तथा च 'सर्वविषयेषु विरज्यते' अशेषशब्दादिविषयं विरागमाप्नोति, विरज्यमानस्तेषुआरम्भः-प्राण्युपमर्दको व्यापारस्तत्त्यागं करोति, विषयार्थत्वात्सारम्भाणां, तत्परित्यागं कुर्वन् 'संसारमार्ग मिथ्यात्वाविरत्यादिरूपं व्यवच्छिनत्ति, तत्त्यागवत एव तत्त्वत आरम्भपरित्यागसम्भवात् , तद्यवच्छित्तौ च सुप्राप एव
१ उत्कृष्टदर्शनेन भदन्त ! जीवः कतिभिर्भवग्रहणैः सिध्येत् ?, गौतम ! उत्कर्षेण तेनैव, ततो मुक्तस्तृतीयं नातिक्राम्यति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org