SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ गाथापञ्चकं प्रायः प्रतीतार्थमेव, नवरम् 'अमित्तमाईसु'त्ति अमित्राः - शत्रवः आदिशब्दाद्यालादिपरिग्रहस्तेषु योऽप्र| मादः स तद्यतिरिक्तोऽप्रमाद उच्यते, द्रव्यत्वं चास्य तथाविधाप्रमादकार्याप्रसाधकत्वात् द्रव्यविषयत्वाद्वा, 'भाव' इति भावे विचार्ये अज्ञानं - मिथ्याज्ञानमसंवरः - अनिरुद्धाश्रवता, आदिशब्दात्कषायपरिग्रहः, एतेषु प्रक्रमादप्रमादः - एतज्जयं प्रति सदा सावधानतारूपो भवति ज्ञातव्यः । तथा 'सो उ पंचविधो'त्ति, स इति तत्-तद्यतिरिक्तसूत्रं 'तुः' पुनरर्थे 'पञ्चविधं' पञ्चप्रकारं पञ्चविधत्वमेवाह - 'अण्डजं' हंसाद्यण्डकेभ्यो यज्जायते यथा क्वचित्पट्टसूत्रं, पौण्डकं ( वोण्डजं ) यद्वमनितिन्दुकोद्भवं यथा कर्पाससूत्रं, वालजं यदूरणकादिकेशोत्पन्नं यथोर्णासूत्रं, वाकजं| सनातस्यादिवाकेभ्यो यज्जायते यथा सनसूत्रं, कीटजं च यत्तथाविधकीटेभ्यो लालात्मकं प्रभवति यथा पट्टसूत्रं, तथा 'सम्यक्रश्रुतम्' अङ्गप्रविष्टादि 'मिथ्याश्रुतं' कनकसप्तत्यादि, अधिकारः - प्रकृतं सम्यक्रश्रुतेन, सुळ्यत्ययाचतीयार्थे सप्तमी, 'इह' अध्ययने 'ज्ञातव्यः' अवबोद्धव्यः, तद्रूपत्वादस्येति गाथापञ्चकार्थः ॥ सम्प्रति गौणतामेवास्य | नाम्नो वक्तुमाह सम्मत्तमप्पमाओ इहमज्झयणंमि वण्णिओ जेणं । तम्हेयं अज्झयणं णायचं अप्पमायसुअं ॥ ५०९ ॥ 'सम्मत्तं'ति सुब्व्यत्ययात्सम्यक्त्वे उपलक्षणत्वाज्ज्ञानादिषु चाप्रमाद उक्तन्यायेन संवेगादिफलोपदर्शनतः काक्वा Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy