________________
उत्तराध्य.
बृहद्वृत्तिः
॥५७१॥
HARRANSCRECCC
तदनुष्ठानं प्रत्युद्यमदर्शनेन वा 'इहमज्झयणमित्ति इहाध्ययने वर्णितो येन तस्मादेतदध्ययनं ज्ञातव्यम् 'अप्रमादश्रुत सम्यक्त्वअप्रमादश्रुतनामकमिति गाथार्थः ॥ गतो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्- |
| पराक्रमा. सुअं मे आउसंतेणं भगवया एवमक्खायं-इह खलु सम्मत्तपरक्कमे नामऽज्झयणे समणेणं भगवया महा-2 वीरेणं कासवेणं पवेइए जं सम्मं सद्दहइत्ता पत्तियाइत्ता रोयइत्ता फासइत्ता पालइत्ता तीरइत्ता किहइत्ता |सोहइत्ता आराहइत्ता आणाए अणुपालइत्ता बहवे जीवा सिझंति बुझंति मुच्चंति परिनिव्वायंति सव्व-II दुक्खाणमंतं करेंति ॥१॥
'श्रुतम्' आकर्णितं 'मे' मया आयुष्मन्निति शिष्यामन्त्रणम् , एतच्च सुधर्मखामी जम्बूखामिनं प्रत्याह, 'तेने ति* यः सर्वजगत्प्रतीतः, तेनापि कीदृशेत्याह-'भगवता' समग्रैश्चर्यादिमता प्रक्रमान्महावीरेण 'एव'मिति वक्ष्यमाणप्रकारेण 'आख्यातं' कथितं, तमेव प्रकारमाह-'इह' अस्मिन् जगति जिनप्रवचने वा 'खलु' निश्चितं सम्यक्त्वमिति गुण-| गुणिनोरनन्यत्वात्सम्यक्त्वगुणान्वितो जीवस्तस्य सम्यक्त्वे वोक्तरूपे सति पराक्रमः-उत्तरोत्तरगुणप्रतिपत्त्या कर्मारिजयसामर्थ्यलक्षणो वर्ण्यतेऽस्मिन्निति सम्यक्त्वपराक्रम नामाध्ययनमस्तीति गम्यते, नन्वेवमिदमपि गौणमेव ॥५७१॥ नाम तत्किमिति नियुक्तिकृताऽऽदानपदेनैतदुक्तम् ?, इतरे तु गौणे इति, सत्यमेतत्, किन्तु नानोऽनेकविधत्त्वसूचनार्थ नियुक्तिकृतेत्थमुक्तं न त्वस्य गौणत्वव्यवच्छेदार्थ, तच केन प्रणीतमित्याह- श्रमणेन' श्रामण्यमनुचरता
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org