________________
-
अथ एकोनत्रिंशं सम्यक्त्वपराक्रमाध्ययनम् ।
REA
व्याख्यातमष्टाविंशमध्ययनमेकोनत्रिंशमारभ्यते,अस्य चायमभिसम्बन्धः-अनन्तराध्ययने ज्ञानादीनि मुक्तिमार्ग-2 त्वेनोक्तानि, तानि च संवेगादिमूलान्यकर्मताऽवसानानि च तथा भवन्तीति तानीहोच्यन्ते, यद्वाऽनन्तराध्ययने मोक्षमार्गगतिरुक्ता इह पुनरप्रमाद एव तत्प्रधानोपायो, ज्ञानादीनामपि तत्पूर्वकत्वादिति, स एव वर्ण्यते, अथवाऽनन्तराध्ययने मुक्तिमार्गगतिरुक्ता, सा च वीतरागत्वपूर्विकेति यथा तद्भवति तथाऽनेनाभिधीयते, इत्यनेन सम्बन्धत्रयेणायातमिदमध्ययनम्, अस्य च महापुरस्येव चत्वार्यनुयोगद्वाराणि व्यावर्य नामनिष्पन्ननिक्षेपोऽभिधेयः, स च नामपूर्वक इत्येतनामनिर्देशायाह नियुक्तिकृत्
आयाणपएणेयं सम्मत्तपरकमंति अज्झयणं । गुण्णं तु अप्पमायं एगे पुण वीयरागसुयं ॥ ५०३ ॥ ___ आदीयत इत्यादानम्-आदिः प्रथममित्यर्थः, तच तत्पदं च-निराकाङ्क्षतयाऽर्थगमकत्वेन वाक्यमेवादानपदं तेन, उपचारतश्चेह तदभिहितमपि तथोक्तं, तत आदानपदाभिहितेन प्रक्रमानाम्ना 'इद'मिति प्रस्तुतं सम्यक्त्वपराक्रममितिः-उपप्रदर्शने, उच्यत इति शेषः 'अध्ययनं' प्रागुक्तनिरुक्तं, वक्ष्यति हि-"इह खलु सम्मत्तपरक्कमे णामऽज्झ
5
%2525
dain Education International
For Personal & Private Use Only
www.jainelibrary.org