SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ उपशान्तक्षीणमोहाख्यगुणस्थानइयवर्तिनः 'जिनस्य वा' केवलिनः सयोग्ययोगिगुणस्थानद्वयस्थायिनः, वा समुच्चये. यथैतत्पश्चविधमपि चारित्रशब्दवाच्यं तथाऽन्वर्थत आह–'एतद्' अनन्तरोक्तं सामायिकादि चयस्य-राशेः प्रस्तावात्कर्मणां रिक्तं-विरेकोऽभाव इतियावत् तत्करोतीत्येवंशीलं चयरिक्तकरं चारित्रमिति नैरुक्तो विधिः, आह-वक्ष्यति|"चरित्तेण णिगिण्हाति तवेण य वि(परि)सुज्झति'त्ति' कथं न तेनास्य विरोधः?, उच्यते, तपसोऽपि तत्त्वतश्चारित्रा४ान्तर्गतत्वात्, भवति 'आख्यातं' कथितमर्हदादिभिरिति गम्यत इति सूत्रद्वयार्थः ॥ सम्प्रति तपश्चतुर्थं कारणमाह तवो अ दुविहो वुत्तो, बाहिरऽभंतरो तहा । बाहिरो छव्विहो वुत्तो, एवमभितरो तवो ॥ ३४॥ तपश्च द्विविधमुक्तं, 'बाहिर'त्ति बाह्यमाभ्यन्तरं, तथा तत्र बाह्यं षड्विधमुक्तमेव मिति-पड्विधमाभ्यन्तरंतप उक्तमिति सूत्रार्थः, भावार्थस्तु तपोऽध्ययन एवाभिधास्यते ॥ आह-एषां मुक्तिमार्गत्वे कस्य कतरो व्यापारः ?, उच्यते नाणेण जाणई भावे, संमत्तेण य सद्दहे । चरित्तेण निगिण्हाइ, तवेण परिसुज्झई ॥३५॥ 'ज्ञानेन' मत्यादिना 'जानाति' अवबुध्यते 'भावान्' जीवादीन् ‘दर्शनेन च' उक्तरूपेण 'सद्दहित्ति श्रद्धत्ते चारित्रेजाण-अनन्तराभिहितेन 'निगिण्हाति'त्ति निराश्रवो भवति, पठ्यते च-'न गिण्हति'त्ति, तत्र 'न गृह्णाति' नादत्ते कर्मेति गम्यते 'तपसा परिशुद्ध्यति' पुरोपचितकर्मक्षपणतः शुद्धो भवति, उक्तं हि-"संजमे अणण्हयफले तवे वोदाणफले"त्ति, इति सूत्रार्थः ॥ अनेन मार्गस्य फलं मोक्ष उक्तः, सम्प्रति तत्फलभूतां गतिमाह- . dan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy