________________
***
R
EA**%**%
एतच्च द्विधा-इत्वरं यावत्कथिकं च, तत्रेत्वरं भरतैरावतयोः प्रथमचरमतीर्थकरतीर्थयोरुपस्थापनायां छेदोपस्थापनी-1 यचारित्रभावेन तत्र तद्यपदेशाभावात् , यावत्कथिकं च तयोरेव मध्यमतीर्थकरतीर्थेषु महाविदेहेषु चोपस्थापनाया अभावेन तद्यपदेशस्य यावजीवमपि सम्भवात्, तथा छेदः-सातिचारस्य यतेनिरतिचारस्य वा शिक्षकस्य तीर्थान्तरसम्बन्धिनो वा तीर्थान्तरं प्रतिपद्यमानस्य पूर्वपर्यायव्यवच्छेदरूपस्तद्युक्तोपस्थापना महाव्रतारोपणरूपा यस्मिंस्तच्छेदोपस्थापनं भवेद्वितीयम. तथा परिहरणं परिहारो विशिष्टतपोरूपस्तेन विशुद्धिरस्मिन्निति परिहारविशुद्धिकं. तचैतगाथाभ्योऽवसेयम्-“परिहारियाण उ तयो जहन्न मज्झो तहेव उक्कोसो । सीउण्हवासकाले भणिओ धीरेहिं पत्तेयं ॥१॥ तत्थ जहण्णो गिम्हे चउत्थ छटुं तु होइ मज्झमओ। अठ्ठममिहमुक्कोसो इत्तो सिसिरे पवक्खामि ॥२॥
सिसिरे उ जहन्नाई छटाई दसमचरमगो होई । वासासु अट्ठमाई बारसपजंतगो णेओ ॥३॥पारणए आयाम द पंचसु पगहो दोसऽभिग्गहो भिक्खे । कप्पट्ठिया य पइदिण करेंति एमेव आयामं ॥४॥ एवं छम्मासतवं चरि द १ पारिहारिकाणां तु तपो जघन्यं मध्यमं तथैवोत्कृष्टम् । शीतोष्णवर्षाकालेषु भणितो धीरैः प्रत्येकम् ॥ १॥ तत्र जघन्यमपि प्रीष्मे
चतुर्थ षष्ठं तु भवति मध्यमतः । अष्टम इह उत्कृष्टमतः शिशिरे प्रवक्ष्यामि ॥ २॥ शिशिरे तु जघन्यादि षष्ठादि दशमचरमकं भवति । वर्षास्वष्टमादि द्वादशपर्यन्तं ज्ञेयं ॥ ३ ॥ पारणके आचामाम्लं पञ्चानां प्रग्रहः द्वयोरभिग्रहो भिक्षायाम् । कल्पस्थिताश्च प्रतिदिनं कुर्वन्त्येवमेवाचामाम्लम् ॥ ४ ॥ एवं षण्मासतपश्चरित्वा परिहारिका अनुचरन्ति । अनुचरकेषु परिहारपदस्थितेषु यावत् षण्मासाः ॥५॥
Jain Education Inter
n al
For Personal & Private Use Only
www.jainelibrary.org