SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बाह्यं त्वाह-'उबव्ह'त्ति, उपबृंहणमुपबृंहा-दर्शनादिगुणान्वितानां सुलब्धजन्मानो यूयं युक्तं च भवाशामिदमित्या मोक्षमार्गबृहद्वृत्तिः दिवचोभिस्तत्तद्गुणपरिवर्द्धनं सा च स्थिरीकरणं च-अभ्युपगम(त)धर्मानुष्ठानं प्रति विपीदतां स्थैर्यापादनमुपबृंहास्थि- गत्य०२८ रीकरणे, वत्सलभावो वात्सल्यं-साधर्मिकजनस्य भक्तपानादिनोचितप्रतिपत्तिकरणं तच प्रभावना च-तथा तथा ॥५६॥ खतीर्थोन्नतिहेतुचेष्टासु प्रवर्तनात्मिका वात्सल्यप्रभावने, उपसंहारमाह-अष्टैते दर्शनाचारा भवन्तीतिशेषः, एभिरेवाष्टभिराचार्यमाणस्यास्योक्तफलसम्पादकतेति भावः, एतच ज्ञानाचाराद्युपलक्षकं, यद्वा दर्शनस्यैव यदाचाराभिधानं तदस्यैवोक्तन्यायेन मुक्तिमार्गमूलत्वसमर्थनार्थमिति सूत्रार्थः ॥ इत्थं ज्ञानदर्शनाख्यं मुक्तिमार्गमभिधाय पुनस्तमेव चारित्ररूपमुपदिदर्शयिषुर्भेदकथनत एव तत्स्वरूपमुपदर्शितं भवतीति मन्वान इदमाह सामाइयऽत्थ पढमं छेदोवट्ठावणं भवे बितियं । परिहारविसुद्धीयं सुहम तह संपरायं च ॥३२॥ अकसाय अहक्खायं, छउमत्थस्स जिणस्स वा । एयं चयरित्तकर, चारित्तं होइ आहियं ॥ ३३ ॥ समिति-साङ्गत्येनैकीभावेन वा आयो-गमनं, कोऽर्थः?-प्रवर्त्तनं, समायः स प्रयोजनमस्य सामायिकं, तदस्य प्रयो-IN ॥५६७॥ ४ जन"मिति (पा०५-१-१०९) ठक्, तच सकलसावद्यपरिहार एव, तत्रैव सति साङ्गत्येन खपरविभागाभावेन च त सर्वत्र प्रवृत्तिसम्भवात् , यद्वा समो-रागद्वेषविरहितः स चेह प्रस्तावाच्चित्तपरिणामस्तस्मिन्नायो-गमनं समायः स एव 8 सामायिकं, विनयादेराकृतिगणत्वात्स्वार्थिकः ठक, इदमपि सर्वसावधविरतिरूपमेव, चेति पूरणे, 'प्रथमम्' आद्यम्, CRORECARREAKER Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy